________________
जिनागमाध्ययनाद्युपदेशः
१९१ ततश्च ‘वस्त्रादिभिः' वेष्टनप्रभृतिभिः । आदिशब्दात् पुष्पाद्यष्टप्रकारपूजाग्रहः । 'पूजयेद्' अर्चयेदिति श्लोकार्थः ।।६५।। इत्थमागमं पुस्तकेषु लेखयित्वा यत् कर्तव्यं तच्छ्लोकेनाह
गीयत्थाणं सुसीलाणं पगासिंताणमागमं ।
विहाणेण मुणिंदाणं दाणं तत्तो निसामणं ।।६६।। 'गीतार्थानां' पठितावबुद्धार्थानाम् । ‘सुशीलानां' शोभनचारित्राणाम्, यतस्त एव योग्या गुणभाजनत्वात्। उक्तं च
यावच्छीलं निर्मलं सुप्रशस्तं, तावत्सर्वाः सम्पदो हस्तसंस्था: । तच्चेन्मोहादुज्झितं खण्डितं वा, दोषध्वाङ्गाऽऽवासवृक्षश्च जातः ।।२३७ ।।
'पगासिंताणमागमं ति प्रकाशयतां प्रकटीकुर्वतां व्याख्यानादिद्वारेण, आगमं सिद्धान्तम् । 'विधानेन' विधिना, प्रकाशयतामित्यत्र सम्बध्यते । अविधिप्रकाशने दोषसम्भवात् । यत उक्तम्
आमे घडे णिहित्तं जहा जलं तं घडं विणासेइ ।
इय सिद्धंतरहस्सं अप्पाहारं विणासेइ ।।२३८ ।। (जी० भा० गा० २६०१) काकाक्षिगोलकन्यायेनाग्रेतनदानपदेऽपि सम्बध्यते । ततश्च विधानेन ‘मुनीन्द्राणाम्' आचार्याणाम्, 'दान' वितरणम्, पुस्तकानां विधेयमिति भावः । पुस्तकदानविधिप्रतिपादनार्थं चोक्तं वृद्धैः, तथा च
दाउं आसण-वत्थ-पत्तपभिई सव्वं मणोमोयगं, ठाऊणं पुरओ कयंजलिउडं वत्तव्वमेवं जहा । 'संसारे जलहिम्मि दुत्तरतरे तुम्हे तरंडं जओ,
वक्खाणेण इमस्स मज्झ परमा कज्जा पभो ! णिजरा' ।।२३९।। उपलक्षणं च पुस्तकदानम् । यत:पत्त पसत्थ सुभुञ्ज सुविहियहु, पोत्थयजोग्गहु तह कत्तणियहु ।
लेहणि खडिय सुवेढण दोरा, देंतु लहइ फलु णाणह केरा ।।२४०।। 'तत्तो निसामणं ति तत: तेभ्य: सकाशाद् निशामनं श्रवणं तेषां पुस्तकानामिति श्लोकार्थः ॥६६॥
तथा
१. ला० "नकप्र' | २. सं० वा० सु० "द्धागमानाम् ॥ ३. ला० पभियं स॥ ४. सं० वा० सु० णं पुस्त' ॥