________________
१९०
सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके
मूयं हुंकारं वा बाढक्कार पडिपुच्छ वीमंसा ।
तत्तो प्रसंगपारायणं च परिणिट्ठ सत्तमए । । २३२ ।। (आव० नि० गा० २३) इत्यादिविधिर्वक्तव्यः । ‘साधुसकाशे' यतिसमीपे सुतीर्थत्वात् तेषाम् । ततश्च 'कायव्वो' त्ति कर्तव्यः अनुष्ठेयस्तदुक्तानुष्टानकरणेन । अत्रापि -
जोगो जोगो जिणसासणम्मि दुक्खक्खया पउंजंतो ।
अण्णोण्णमबाहाए असवत्तो होइ कायव्वो ।। २३३ ।। ( ओघनि० गा० २७७) इत्यादिविधिरायोज्यः । ‘शुद्धभावत: ' विशुद्धाध्यवसायेनेति श्लोकार्थः ।। ६३ । । यद्येवं कानि तत्कारणानि ? इति प्र श्लोकमाह
सुप्पसण्णा जिणाणाए कारणं गुरुणो परं । पोत्थयाणि य णाणस्स संपयं साहणं तओ ।। ६४ ।।
‘सुप्रसन्नाः' अतिप्रसादवन्त; प्रसादिता हि गुरवः श्रुतं प्रयच्छन्ति । उक्तं चविणओणएहिं पंजलिउडेहिँ छंदमणुयत्तमाणेहिं ।
आराहिओ गुरुयणो सुयं बहुविहं लहुं देइ । । २३४।। (आव० नि० गा० १३८) ‘जिणाणाए’ जिनाज्ञया=तीर्थकरोपदेशेन, 'विनीतविनेयेभ्यः श्रुतं दातव्यमेव' इत्येवंरूपया । 'कारणं' हेतुः 'गुरवः' यथावच्छास्त्रार्थवेदिनः, 'परं' प्रधानम्, 'पुस्तकानि च ' लिखितजिनागमपत्रसञ्चयरूपाणि, 'ज्ञानस्य' श्रुतज्ञानस्य, 'साम्प्रतम्' अस्मिन् दुःषमाकाले 'साधनं ' निष्पादकम् । ‘तत:’ इत्युत्तरश्लोकसम्बन्धनार्थः । इति श्लोकार्थः ।।६४।।
जिणाणाबहुमाणेणं विहाणेणं लिहावए ।
पोत्थयाणि महत्थाणि वत्थमाईहिं पूयए । । ६५ ।।
'जिनाज्ञाबहुमानेन' तीर्थकरादेशप्रीत्या, 'विधानेन' विधिना, लेखयेत् पुस्तकानि ' महार्थानि ' तल्लिखितग्रन्थानां महार्थत्वेन प्रचुराभिधेयानि, यत एवंविधपुस्तकलेखनस्य बहुगुणत्वात् । तथा हिन ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् ।
न चान्धतां बुद्धिविहीनतां च, ये लेखयन्तीह जिनस्य वाक्यम् ।।२३५ ।। लेखयन्ति नरा धन्या ये जैनागमपुस्तकम् ।
ते सर्वं वाङ्मयं ज्ञात्वा सिद्धिं यान्ति न संशयः । । २३६ । ।
१. ला० रणात् ॥ अत्रा ॥ २. ला० इतिरुप ॥ ३. ला० 'खकस्य ॥