________________
१६६
सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके 'हा ! अणाह'त्ति हा इति प्रलापे, 'अनाथा:' त्राणवर्जिताः कथमभूवन् ? न कथश्चिदित्यर्थः। 'न हुँतो'त्ति नाऽभूद् यदि जिनागम: अर्हत्सिद्धान्त: परमत्रातेत्ययमाशय: । तथा हि
दूसमकालम्मि नरा सरणविहीणा लहंति दुक्खाई। सारीर-माणसाइं नारय-तिरि-मणुय-देवेसु॥२०३॥ तायारमविंदंता चउविहगइगमणगुविलसंसारे ।
चुलसीइजोणिलक्खे सुदुक्खतविया भमंति जिया ॥२०४॥ आगमे तु त्रातरि दु:षमाकालेऽपि भवोदधिस्तीर्यत इति । उक्तं च
कूरा वि सहावेणं विसयविसवसाणुगा वि होऊण ।
भावियजिणवयणमणा तेलुक्कसुहावहा हुंति ।।२०५।। इति श्लोकार्थः ।।५९।। यद्येवं तत: किम् ?
तम्हा ताणं महाणाहो बंधू माया पिया सुही ।
गई मई इमो दीवो आगमो वीरदेसिओ ।।६० ।। 'तम्ह'त्ति तस्मात् । 'त्राणं' शरणम् । 'महानाथः' महानायकः । 'बन्धुः' स्वजन: । 'माता' जननी। 'पिता' जनकः । 'सुहृत्' मित्रम् । 'गति:' सुदेवत्व-सुमानुषत्व-सिद्धिगतिरूपा । 'मति:' स्वाभाविकी बुद्धिः। 'इमो'त्ति अयम् । 'दीवो'त्ति द्वीप: समुद्रान्तर्वर्तिस्थलरूपः, दीपो वा=चारकादिष्वन्धकारापहवह्निकलिकालक्षणः। आगमो 'वीरदेशित:' चरमतीर्थकरप्ररूपित इति श्लोकार्थः ।।६०।। अयं च साम्प्रतं क्रमादागतोऽल्पातिशयश्चेति प्रतिपादनार्थं श्लोकमाह
सूरीपरंपरेणेसो संपत्तो जाव संपयं ।
किंतु साइसओ पायं वोच्छिन्नो कालदोसओ ।।६१।। सूरीणाम् आचार्याणां परम्परा-शिष्य-प्रशिष्यादिरूपा, लिङ्गव्यत्ययात्, तया । ‘एष:' अयम् । 'सम्प्राप्त:' आगतो यावत् ‘साम्प्रतम्' अद्यकालम् । किन्तु 'सातिशय:' महापरिज्ञाध्ययनाद्यतिशयग्रन्थरूप: । 'प्राय:' बाहुल्येन । 'व्यवच्छिन्नः' त्रुटित: । ‘कालदोषतः' दुःषमानुभावतः । तथा हि कालिकाचार्येण स्वपौत्रगर्ववत्सागरचन्द्राचार्यप्रतिबोधनाकाले
१. ला० 'त्यभिप्रायः । तथा ॥ २. सं० वा० सु० "काले भवो ॥ ३. ला० तेलोक्क' || ४. ता० देवो ॥ ५. सं० वा० सु० वत्वं परत्वे सिद्धि (?) ।। ६. सं० वा० सु० ण प्रपौत्र ।