________________
१६०
सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके ___ इति श्लोकार्थः ।।५०।। चिन्तामणिरप्यसाविति श्लोकार्थमाह
चिंताईयं फलं देइ एसो चिंतामणी परो ।।५१ पू०।। 'चिन्तातीतं' चिन्तातिक्रान्तम् । ‘फलं' कार्यम् । 'देई' त्ति ददाति । एष 'चिन्तामणिः' चिन्तारत्नम्। 'व(प)र:' प्रधान: चिन्तातीतफलदायकत्वादेव ।।५१ पू०।। कियद्वा शृङ्गग्राहं भणिष्यामि ? इति समस्तादेशसङ्ग्रहार्थं श्लोकोत्तरार्धमाह
मण्णे तं नत्थि जं नत्थ इत्थ तित्थंकरागमे ।।५१।। मन्ये' इत्याऽऽप्तवादसंसूचकः । अवधारणस्य गम्यमानत्वात् तद् नास्त्येव यद् अत्र-जिनागमे नाऽस्तीति श्लोकार्थः ।।५१।।। आगमादरवता यत् कृतं भवति तच्छ्लोकेनाऽऽह
आगमं आयरंतेणअत्तणो हियकंखिणा ।
तित्थणाहो गुरू धम्मो ते सव्वे बहुमण्णिया ।।५२।। आगमम् 'आद्रियमाणेन' प्रमाणीकुर्वता । कथम्भूतेन (?केन) ? जन्तुनेति गम्यते । 'आत्मनः' स्वस्य । 'हितकाङ्क्षिणा' श्रेयोर्थिना । 'तीर्थ नाथः' अर्हन् । 'गुरुः' यथावस्थितशास्त्रार्थवेदी । 'धर्मः' दुर्गतिप्रपतदङ्गिगणधारकः । 'ते' पूर्वोक्ता: । 'सर्वे' समस्ताः । 'बहुमता:' गौरव्या: । कृता भवन्तीति क्रियाध्याहारः। इति श्लोकार्थः ।।५२।। तद्बहुमानवता यत् कृतं भवति तच्छ्लोकेनाऽऽह
बहुमाणेण एयम्मि नत्थि तं जं न मन्नियं ।
तेलोक्के मन्नणेजाणं वुत्तो ठाणं जओ इमो ।।५३।। 'बहुमानेन' आन्तरप्रीतिविशेषेण । 'एयम्मि' एतस्मिन्नागमे । 'नास्ति' न विद्यते । तद् यद् न 'मतम्' आदृतम् । 'त्रैलोक्ये' जगति । माननीयानां 'व्युक्तः' प्रतिपादित: । 'स्थानम्' =आश्रय:। 'जओ'तियत: यस्मात् कारणात् । ‘इमो'त्ति अयं सिद्धान्तः । इति श्लोकार्थः ।।५३।।
किश्चाऽऽगमस्यैव प्रमाणतामुपदर्शयन् श्लोकमाह
१. ला० 'त्थि एत्थं ति ता० "त्थि मेत्थं ति ॥ २. सं० वा० सु० 'मण्णे इ° ॥ ३. ला० तदाह श्लोकेन । ४. ता० णमत्त ॥ ५. ला० ता हि यत् ॥ ६. ला० ता० णमेय ॥ ७. सं० वा० सु० ति यस्मा' ॥ ८. ला० र्थः ॥५३॥ जिनागमस्यैव ॥ ९. ला० ‘णतां प्रदर्श॥