SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ जिनागममाहात्म्यम् १६१ न यागमं पमोत्तूणमन्नं मण्णंति सूरिणो । पमाणं धम्ममग्गम्मि दिद्वंतं बेंति केवली ।।५४।। 'न च' नैव । आगमं प्रमुच्य-परित्यज्य । 'अन्यद्' एतद्व्यतिरिक्तम् । ‘मन्यन्ते' प्रमाणीकुर्वन्ति । ‘सूरयः' पण्डिता आचार्या वा । 'प्रमाणं' साधकम् । ‘धर्ममार्गे' धर्मविचारे । अत्राऽर्थे 'दृष्टान्तं' निदर्शनम्। 'ब्रुवते' तमेव प्रतिपादयन्ति, जिना इति गम्यते । 'केवलिनं' क्षीणरागादिदोषं प्रत्यक्षज्ञानिनम्, तथा चागमवता सिद्धान्तदृष्ट्या शोधितमाहारमाधाकर्मापि भुङ्क्ते केवल्यपि । उक्तं च ओहो सुओवउत्तो सुयणाणी जइ वि गिण्हइ असुद्धं । तं केवली वि भुंजइ अपमाण सुयं भवे इहरा ।।१९३।। (पि०नि० गा० ५२४) इति भाव इति श्लोकार्थः ।।५४।। किञ्च कल्याणभागिनामेवागमे बहुमान इति प्रतिपादनार्थं श्लोकमाह कल्लाणाणं महंताणं अणंताणं सुहाण य । भायणं चेव जे जीवा ते तं भावेंति भावओ ।।५५।। कल्याणानां' श्रेयसाम् । 'महतां' बृहत्प्रमाणानाम् । 'अनन्तानाम्' अपरिमेयाणाम् । 'सुखानां च' शर्मणां च । 'भायणं'ति भाजनं-स्थानम् । 'चैव' इत्यवधारणार्थः, तेन भाजनमेव । ये 'जीवा:' प्राणिनः। ते 'तं'ति तमागमम् । 'भावयन्ति' परिभावयन्ति चेतस्यवस्थापयन्तीत्यर्थः । ‘भावतः' बहुमानेन । इति श्लोकार्थः ॥५५॥ व्यतिरेकमाह अण्णाणं मंदपुण्णाणं णिसामंताण कत्थइ । कण्णसूलं समुप्पजे अमयं पि विसं भवे ।।५६।। 'अन्येषाम्' अपरेषामभव्यादीनाम् । 'मन्दपुण्यानाम्' अल्पशुभकर्मणाम् । 'निशमयतां' शृण्वताम् । 'कत्यइत्ति कापि जिनागमव्याख्यानादौ । 'कण्णसूलं ति कर्णशूलं-श्रवणदुःखम् । 'समुप्पज्जइ'त्ति समुत्पद्यते-जायते । एवं च तेषाम् ‘अमृतमपि' सुरान्नमपि । 'विषं' गरलम् । 'भर्वति' जायते इति । अत्रार्थे कथानकम् १. ला० नम् । कुर्वते प्रतिपा' ॥ २. सं० वा० सु० कर्मण्यपि ॥ ३. सं० वा० सु० उक्तम् ओहो ॥ ४. सं० वा० सु० नामागमे॥ ५. ला० ता० भाविति ॥ ६. ला० णाम् । 'भाय ॥ ७. सं० वा० सु० "त्थय त्ति ॥ ८. ला० ख्यादौ ॥ ९. सं० वा० सु० वतीति जायते इति । अत्रापि कथा' ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy