SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १५९ जिनागममाहात्म्यम् इति श्लोकार्थः ।।४८।। सम्प्रति हस्तालम्बकपुरुषत्वमस्य श्लोकेनाऽऽह सारीर-माणसाणेयदुक्ख-कुग्गाहांगरे । बुडुंताणं इमो झत्ति हत्थालंबं पयच्छेइ ।।४९।। 'शारीर-मानसानेकदुःख-कुग्राहसागरे' शरीरे भवानि शारीराणि शस्त्राभिघात-रोगाद्युद्भवानि, मनसि भवानि मानसानि राग-द्वेषा-चिन्ताजानि, अनेकानि-प्रचुराणि, दुःखानि पीडा:, कुग्राहा:-मिथ्याभिनिवेशाः, त एव सागर: समुद्रः शारीर-मानसानेकदुःख-कुग्राहसागरः तस्मिन् । 'बुढताणं'ति ब्रुडतां-निमजताम् । ‘इमो' अयम् । ‘झगिति' शीघ्रम् । हस्तालम्बमिव 'हस्तालम्बं' सामर्थ्यात् तन्निस्तरणोपायं सम्यक्त्वादि । प्रयच्छति ददाति । तथा हि जह सागरे पडतं हत्थालंबेण को वि उद्धरइ । दुहसागरे पडतं जिणसिद्धंतो तहुद्धरई ।।१९०।। इति श्लोकार्थः ।।४९।। इदानीं भाण्डागारतामस्य श्लोकेनाऽऽह महाविजासहस्साणं महामंताणमागमो । भूइट्ठाणं सुदिट्ठाणं एसो कोसो सुहावहो ।।५०।। महाविद्या:-प्रज्ञप्ति-रोहिणिप्रमुखस्त्रीसमधिष्ठिता: साधनविधि-युक्ता वाऽक्षरपङ्कयस्तासां सहस्रा: दशशतात्मकास्तेषाम् । 'महामन्त्राणां' चेटकादिपुरुषाधिष्ठितानां साधनविधिविकलानां वा वर्णसन्दर्भाणाम् । उक्तं च इत्थी विजाऽभिहिया पुरिसो मंतो त्ति तव्विसेसोऽयं । विज्जा ससाहणा वा साहणरहियो भवे मंतो ॥१९१ ।। (आव० नि० गा० ९३१) 'आगमः' सिद्धान्तः । 'भूयिष्ठानां' प्रभूतानाम् । ‘सुदृष्टानां' सातिशयानाम् । एष ‘कोश:' भाण्डागारम्। 'सुखावहः' सुखकृत् । अन्यदर्शनसिद्धान्तेष्वपि महाविद्यादयो दृश्यन्त इति चेत् । तन्न, तेषामित एवोद्धृतत्वात् । उक्तं च सिद्धसेनदिवाकरेण- . सुनिश्चितं नः परतन्त्रसूक्तिषु, स्फुरन्ति याः काश्चन सूक्तसम्पदः । तथैव ताः पूर्वमहार्णवोद्धता, जगत्प्रमाणं जिनवाक्यविपुषः ।।१९२।। १. ला० ता० सायरे ॥ २. सं० वा० सु० च्छई ॥ ३. ला० शरीरभवा ।। ४. ला० ‘जातानि, अने ॥ ५. सं० वा० सु० ‘इ ॥ इदानीं ॥ ६. पु० ण आग ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy