________________
१५८
सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके 'जेणं'ति येन कारणेन । 'स्वर्गा-ऽपवर्गाणां' देवलोक-मोक्षाणां 'मार्ग' पन्थानं ज्ञान-दर्शनचारित्ररूपम्। 'दाएई'त्ति दर्शयति । ‘देहिनां' प्राणिनाम् । 'चक्षुर्भूतः' दृष्टिकल्प: । ‘इमो' अयम्। 'तेणं'ति तेन कारणेन । 'सर्वेषां' समस्तानाम् । 'भव्यप्राणिनां मुक्तिगमनयोग्यजन्तूनाम्, यस्माद् अभव्यानामयमपि न सन्मार्गदर्शको जायतेऽतो भव्यानामित्युक्तम् । इति श्लोकार्थः ॥४६॥ सम्प्रति जननी-जनकरूपतामस्य श्लोकेनाऽऽह
आगमो चेव जीवाणं जणणी णेहणिब्भरा ।।
जोग-खेमंकरो निच्चं आगमो जेणगो तहा ।।४७।। आगमश्चैव जीवानां 'जननी' माता 'स्नेहनिर्भरा' अञ्जसाऽऽपूर्णा । तथा हि
पालण-पोसण-परिवद्धणाइ पुत्ताण कुणइ जह माया ।
तह एसो जीवाणं करेइ जिणभणियसिद्धंतो ।।१८६ ।। 'जोग-खेमंकरो'त्ति तत्राऽभिनवस्योपार्जनं योगः, पूर्वोपार्जितस्य च रक्षणं क्षेमम्, ते करोतीति योग-क्षेमकर: । 'नित्यं' सदा । आगमो ‘जनकः' पिता । तथा तेनैव प्रकारेण । तथा हि
पुव्वोवज्जियगुणरक्खणाओ अप्पुव्वकरणओ चेव ।
सिद्धंतो जीवाणं जणगो व सजोग-खेमकरो ।।१८७।। इति श्लोकार्थः ।।४७।। इदानीं सार्थवाहत्वमस्योपदर्शयन् श्लोकमाह
राग-होस-कसायाइदुट्ठसावयसंकुले ।
एसो संसारकंतारे सत्थाहो मग्गदेसओ ।।४८।। राग-द्वेषौ प्रीत्यप्रीतिस्वभावौ, कषायाः क्रोध-मान-माया-लोभाः, ते आदिर्येषां महामोहादीनां ते तदादयः, त एव दुष्टश्चापदा:-रौद्रसिंह-व्याघ्रादयस्तैः संकुले व्याप्ते । एष 'संसारकान्तारे' भवारण्ये । 'सार्थवाहः' सार्थनायकः । मार्गदेशक:-वर्तनीप्रदर्शकः, तथा हि
जह निरुवहयं मग्गं सत्थाहो तग्गुणे वियाणंतो । देसेइ सत्थियाणं कंतारे सावयाइण्णे ।।१८८।। तह जीवाणं बहुविहआवयसयसंकुलम्मि भवगहणे ।
णाणाईणिरुवहयं मग्गं दंसेइ जिणसमओ ।।१८९।। १. सं० वा० सु० 'इ' दर्श ॥ २. ला० ता० जोग-क्खेमं ॥ ३. ला० ता० °णओत" || ४. सं० वा० सु० व जननी माता जीवानां ॥ ५. सं० वा० सु० तं क ॥ ६. ला० °णउ व्व सुजोग' ॥ ७. ला० वइस॥