________________
जिनागममाहात्म्यम्
: - सिद्धान्त इति श्लोकार्थार्थः ॥ ४३ पू० ॥
न केवलं त्राणम्, आलम्बनमप्यसौ । यत आह श्लोकस्योत्तरार्धम् —
आगम: =
भवकूवे पडंताणं एसो आलंबणं परं ।। ४३ ।।
भवकूंपे= संसारावटे । पततां = निमज्जताम् । एषः =आगमः । आलम्बनम् = अवष्टम्भनमुद्धरणरज्जुरित्यर्थः । परं = प्रधानमिति श्लोकोत्तरार्धार्थः । । ४३ ।।
साम्प्रतमागमस्य नाथ-बन्धुत्वे एकश्लोकेनाऽऽह—
एसो णाहो अणाहाणं सव्वभूयाण भावओ । भावबंधू इमो चेव सव्वसोक्खाण कारणं ।।४४।।
एष ‘नाथः’ नायकः । 'अनाथानाम्' अस्वामिकानाम् । केषाम् ? ' सर्वभूतानां' नि:शेषजन्तूनाम् । ‘भावतः' परमार्थतः । यथा हि स्वामी समाश्रितान् रक्षति एवमसावप्यहिंसाप्रतिपादनपरवाक्योपदेशतः सर्वजन्तून् रक्षति । तथा 'भावबन्धुः' परमार्थभ्राता । 'इमो चैवत्ति एष एव । 'सर्वसौख्यानां' समस्तनिर्वृतीनाम् । 'कारणं' हेतुः । तथा हि
ज बंधू वरसिक्खं वियरंतो सोक्खकारणं होइ ।
तह आगमो वि सिवसुहहेऊ नाणाइदाणाओ ।। १८५ ।।
इति लोकार्थ: ।। ४४ ।। अधुनाऽऽगमस्यैव दीपरूपतां श्लोकेन प्रतिपादयति
१५७
अंधयारे दुरुत्तारे घोरे संसारचारए ।
एसो चेव महादीवो लोया - लोयावलोयणो ।। ४५ ।।
'अन्धकारे' तमोबहुले । 'दुरुतारे' कष्टनिर्गमे । 'घोरे' रौद्रे । 'संसारचारके' भवगुप्तिगृहे । एष चैव महादीप:, ‘लोका - ऽलोकावलोकन: ' निःशेषपदार्थप्रदर्शकः । इति श्लोकार्थः ।।४५।।
आगमश्चक्षुर्भूत इति लोकेनाऽऽह
जेणं सग्गा - ऽपवग्गाणं मग्गं दाएइ देहिणं ।
चक्खुभूओ इमो तेणं सव्वेसिं भव्वपाणिणं । ।४६।।
१. सं० वा०सु० 'कूवे ॥ २. ला० °तानाम् । भावतः ॥ ३. सं० वा० सु० 'व' एव ॥ ४. ता० 'लोयऽव' ॥ ५. ला० 'दार्थदर्श ॥