________________
1
सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके न भोज्यम् । तत्र भोज्यं लौकिकमोदनादि, न भोज्यं गोमांसादि । लोकोत्तरं भोज्यं यतीनामेषणीयपिण्डादि, न भोज्यं तदेवाऽनेषणीयादि, विरता ऽविरतानां तु भोज्यमसंसक्तभक्तादि, न भोज्यमनन्तकायादि । ‘जुत्ता - ऽजुतं' ति युक्ता - ऽयुक्तम् । लौकिकं युक्तमभ्यागतागतप्रतिपत्त्यादि, अयुक्तं परद्रोहादि । लोकोत्तरं युक्तं व्रतिनां परोपकारकरणादि, अयुक्तं सिद्धान्तार्थगूहनादि, श्राद्धानां तु युक्तं यतिपर्युपासनादि, अयुक्तं पाषण्डिकोपसेवादि । 'सारा - सारं 'ति सारा - ऽसारम् । लौकिकं सारं वज्र-गोशीर्ष-चन्दन-स्रग-ऽङ्गनादि, असारं खरोपलैरण्डकाष्ठ-कंण्डकादि । लोकोत्तरं सारं मुनीनां नवब्रह्मचर्य गुप्तिसनाथब्रह्मचर्य परिपालनादि, असारं तस्यैवातिक्रम-व्यतिक्रमा - ऽतिचाराऽनाचारादिदोषैर्मलिनीकरणादि; श्रावकाणां सारं सर्वविरतिलालसपरिणामादि, असारं प्रमादादि । 'मज्झिमा - ऽमज्झिमं' ति मध्या - sमध्यम् । तत्र मध्यमुभयपक्षेऽपि सारा - ऽसारमध्यवर्ति, अमध्यं तु सारा ऽसारमेव । 'भक्खा - ऽभक्ख' ति भक्ष्या- भक्ष्यम् । लौकिकं भक्ष्यं मोदक - नालिकेरादि, अभक्ष्यं किम्पाकफलादि । लोकोत्तरं भक्ष्यं यतीनां तदेवैषणीयादि, अभक्ष्यमप्राशुकादि, श्रावकाणामपि भक्ष्यं तदेवाविरुद्धम्, अभक्ष्यं भटित्रीकृतफलादि । 'सोक्खा - सोक्खं 'ति सौख्या - ऽसौख्यम् । लौकिकं सौख्यं विषयसुखादि, असौख्यं तदप्राप्त्यादि । लोकोत्तरं सौख्यं संयतानां व्रतपर्यायधृत्यादि, असौख्यं तत्रैवारत्यादि । उक्तं च
१५६
देवलोगसमाणो उ परियाओ महेसिणं ।
रयाणं, अरयाणं च महानरयसालिसो । । १८४ । । (दश० प्र० चू० गा १०)
श्रावकाणां सौख्यं पौषधानुष्ठानकरणादि, असौख्यं शङ्का - काङ्खाद्याकुलितचित्ताि उभयोरपि सौख्यं मोक्षः, असौख्यं संसारः । ' जेण' त्ति येन = आगमेन । ' लक्खंति' त्ति लक्षयन्ति= निश्चिन्वन्ति । ‘दक्ख’त्ति दक्षा:- पण्डिता इति वृत्तार्थ: ।।४१।।
ततश्च-‘सद्धासंवेगं’ति श्रद्धासंवेगः, श्रद्धया = संयमानुष्ठानकरणरूपया, संवेग := सांसारिकसुखे दुःखाभिप्राय:, अतस्तम् । 'आवरण' त्ति आपन्नाः = प्राप्ताः । 'भीय'त्ति भीता: = चकिताः । ‘दुक्खाणं’ति दुःखानां=शारीरिक-मानसिकबाधारूपाणाम् । 'पाणिणो 'त्ति प्राणिनः = जन्तवः । 'कुणंत'त्ति कुर्वन्तः=विदधानाः । ' तत्थ वुत्ताइं 'ति तत्र = आगमे, उक्तानि = कथिता । 'प परमं ति प्राप्नुवन्ति = लभन्ते, परमं प्रकृष्टम् । 'पयं' ति पदं स्थानमिति श्लोकार्थ: ।। ४२ ।।
निगमनमाह-‘तम्ह’त्ति तस्मात् । ' एसो 'त्ति एषः = प्रत्यक्ष: । ' दुहत्ताणं' ति दुःखार्तानां = दुःखपीडितानाम् । 'ताणं 'ति त्राणं = शरणम् । 'सत्ताणं ' ति सत्त्वानां = प्राणिनाम् । 'आगमो 'त्ति
१. ला० कण्टका ॥ २. ला० 'चारदो ॥ ३. ला० 'यसारियो । ४. सं० वा० सु० 'कव्याधिरू || ५. ला० 'नि 'पाविति' [त्ति ] प्राप्नुवन्ति लभन्ते, 'परमं ति परमम् ॥