SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ [जिनागमाख्यं तृतीयं स्थानकम् ] व्याख्यातं द्वितीयस्थानकम् । सम्प्रति तृतीयमारभ्यते । अस्य च पूर्वेण सहायमभिसम्बन्ध: पूर्वत्र जिनभवनकृत्यमुक्तम्, तच्चाऽऽगमादेव जायत इति तत्स्थानकं वाच्यम् । तस्य च तन्माहात्म्यख्यापकमादिवृत्तमिदम् देवाहिदेवाण गुणायराणं, तित्थंकराणं वयणं महत्थं । मोत्तूण जंतूण किमत्थि ताणं, असारसंसारदुहाहयाणं ? ।।३९।। 'देवाहिदेवाणंति देवाधिदेवानाम्, देवा:=पुरन्दरादयस्तेषामधिदेवा:-नायका जिनाः, अतस्तेषां सम्बन्धि वचनं मुक्त्वा नाऽन्यत् त्राणमस्तीति सम्बन्धः । 'गुणायराणं'ति गुणाकराणाम्, गुणा:-क्षान्त्यादयस्तेषामाकरा: उत्पत्तिभूमयो गुणाकरा: । यथा ह्याकरेषु यानि वस्तून्युत्पद्यन्ते तानि तेषूच्चीयमानान्यपि न त्रुट्यन्ति, एवं भगवद्गुणा अपि वर्ण्यमाना न निष्ठां यान्तीत्यभिप्राय: । उक्तं च मइ-सुयतुरियतुरंगमसणाहओहीमणोरहरहेण । जस्स गुणत्थुइपंथे अंतं पत्तो न सक्को वि ।।१७६।।. अन्यदेवा अप्येवंविधा भविष्यन्तीत्याशङ्कापनोदार्थमाह-'तित्थंकराणं ति तीर्थकृताम्, तरन्त्यनेन प्राणिन इति तीर्थं द्रव्य-भावभेदाद् द्विधा । तत्र द्रव्यतीर्थं नद्यादिषु समवतारः, न तेनाऽत्राऽधिकारः । भावतीर्थं तु संसारसागरोत्तारणसमर्थं चतुर्विधश्रीश्रमणसङ्घरूपं प्रथमगणधररूपं वा, तत् कुर्वन्तीति तीर्थङ्कराः । अतस्तेषां 'वयणं'ति वचनम् =आगमः । ‘महत्थं'ति महार्थ-प्रभूतवाच्यम् । उक्तं च- । सव्वनईणं जा होज वालुया सागराण जं सलिलं । तत्तो वि अणंतगुणो अत्थो एगस्स सुत्तस्स ।।१७७।। 'मोत्तुं'ति [मोत्तूण त्ति] मुक्त्वा-विमुच्य । 'जंतूण'त्ति जन्तूनां शरीरिणाम् । 'किमत्थि'त्ति किमस्ति?, न किञ्चिदित्यभिप्राय: । 'ताणं ति त्राणं-शरणम् । कथम्भूतानां जन्तूनाम् ? 'असारसंसारदुहाहयाणं'ति असारसंसारदुःखाहतानाम्, असार:=निःसार:, संसार:=चतुर्गतिरूपस्तत्र दुःखम् = अशर्मरूपं तेनाऽऽहतानां पीडितानामिति वृत्तार्थः ।।३९।। जिनवचनमेव त्राणं नाऽन्यदित्युक्तम्, तच्च यथा त्राणं भवतीति तथा सार्धरूपकत्रयेणाऽऽह १. सं० वा० सु० इति स्थान॥ २. सं० वा० सु० त्थंगरा' ॥ ३. ला० ति देवा: पुर" ।। ४. ला० ना निष्ठां न या।। ५. ला० चतुर्वर्ण श्री ॥ ६. सं० वा० सु० °या सव्वउयहिजं तोयं ॥ ७. ला० एत्तो ॥ ८. ला० यः॥ त्राणं ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy