SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२६ सविवरण मूलशुद्धि प्रकरण द्वितीय स्थानके कथं कारयेत् ? 'विधानेन' विधिना, यस्माद्विधिनैव विधीयमानं सर्वमप्यनुष्ठानं फलवद्भवति । उक्तं च विधिना विधीयमानं धर्मानुष्ठानमखिलमिह भवति । फलदं यस्मात् तस्माद् यत्नस्तत्रैव कर्तव्यः ।।१४७ ।। विधापयेत् कारयेदिति वृत्तदशकार्थः [२७-३६] ।।६।। कीदृग्विधया सम्पत्त्या ?, किंविधेन च चित्तेन ?, कीदृशेन चाऽऽदरेण ?, कं वा निदर्शनीकृत्य तानि कारयेत् ? इत्यतोऽर्थं वृत्तमाह- . जम्मंतरोवत्तमहंतपुण्णसंभारसंपत्तसुसंपयाए । सुहासएणं परमायरेणं, संकासजीवो णिवसंपई वा ।।३७।। 'जन्मान्तरोपात्तमहत्पुण्यसम्भारसम्प्राप्तसुसम्पदा' जन्मान्तरं पूर्वजन्मरूपं तस्मिन्, उपात्तम् = उपार्जितम्, महद्-बृहत्, पुण्यं शुभम्, तस्य सम्भार: सञ्चयः, तेन सम्प्राप्ता-लब्धा, या सुसम्पत्=प्रधानलक्ष्मीस्तया । 'शुभाशयेन' इति शुभ: प्रशस्त:, आशय:-चित्तं शुभाशयोऽतस्तेन । यत उक्तम् पिच्छिस्सं इत्थ अहं वंदणगणिमित्तमार्गए साहू । .. कयउने भगवंते गुणरयणणिही महासत्ते ।।१४८।। सङ्क्लिष्टचित्तो हि धर्मानुष्ठानमपि कुर्वन् न तत्फलमासादयति । उक्तं चोपदेशपदेषु तवसुत्तविणयपूया न संकिलिट्ठस्स होंति ताणाय । खवगागमविणयरओ कुंतलदेवी उयाहरणा ।।१४९।। (गा० ४८५) तथा संक्लिष्टचित्तः प्रकरोति पुण्यं, यस्तस्य तद् दोषविधायि नूनम् । यद्वज्ज्वरे नूतन एव जाते, सदौषधं तच्छमनाय दत्तम् ।।१५० ।। 'परमादरेण' इति परम:=प्रकृष्टः, आदर: यत्नोऽतस्तेन । यत: न हु होइ किं पि फलयं अणायरेणं विहेजमाणं तु । इहलोइयं पि, किं पुण परलोगसुहावहो धम्मो ? ।।१५१।। १. ला० गये साहू ।। २. ला० हु किंपि होइ फ' ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy