________________
जिनभवनवर्णना
१२५
'विमानमाला-कुलपर्वतेषु' विमानमाला:-वैमानिकदेवनिवासपङ्क्तय: कुलपर्वता: हिमाचलादय:, विमानमालाश्च कुलपर्वताश्च विमानमाला-कुलपर्वतास्तेषु, तथा । 'वक्षार-नन्दीश्वर-मन्दरेषु' वक्षारा:-विजयविभागकारिपर्वता:, नन्दीश्वर:=अष्टद्वीपः, मन्दर: मेरुः, वक्षाराश्चेत्यादिद्वन्द्वस्तेषु तथा। अष्टापदे-अवध्याप्रत्यासन्नवर्तिति वैताट्यपादपर्वते यत्र भरतचक्रिविनिर्मितं चैत्यायतनमस्ति । उपलक्षणं चैतत् शत्रुञ्जयादीनाम् । कथम्भूतानि ? यानि शाश्वतानि-अकृत्रिमाणि विमानमालादिषु, अशाश्वतानि कृत्रिमाणि अष्टपदादिषु, जिनालयानीव-जिनायतनानिवत् तादृग्विधानीति भावार्थः । पुनः किम्भूतानि ? महालयानि-बृहत्प्रमाणानीति वृत्तार्थः ।।३५।। केषु स्थानेषु तानि कारयेत् ? इत्यत आह
उत्तुंगसिंगेसु महागिरीसे, पुरेसु गामा-ऽऽगर-पट्टणेसु।
पए पए सव्वमहीयलम्मि, गिही विहाणेण विहावएजा ।।३६।। 'उत्तुङ्गशृङ्गेषु, उच्चकूटेषु ‘महागिरिषु' बृहत्पर्वतेषूजयन्तादिषु । पुरेषु-नगरेष्ववध्यादिषु । 'ग्रामाऽऽगर-पत्तनेषु' ग्रसन्ति बुद्ध्यादीन् गुणानिति ग्रामा:-शालिग्रामादयः, आकरा:-लवणाद्युत्पत्तिभूमय: शाकम्भर्यादयः, पत्तनानि-जल-स्थलमार्गयुक्तानि भृगुकच्छादीनि, ग्रामाश्चाकराश्चेत्यादिविग्रहः तेषु । किं बहुना ? 'पदे पदे' स्थाने [स्थाने], 'सर्वमहीतले' निःशेषभूवलये, 'गृही' गृहस्थो यत: स एवात्राधिकारी, उक्तं च जिनभवनविधौ
अहिगारी उ गिहत्थो सुहसयणो वित्तसंजुओ कुलजो । अक्खुद्दो धीबलिओ मंइमं तह धम्मरागी य ।।१४३।। गुरुपूजाकरणरई सुस्सूसाइगुणसंगओ चेव । नायाऽहिगमविहाणस्स धणियमाणापहाणो य ।।१४४।।
(पञ्चा० गा० ३०४, ३५०) अनधिकारिणा तु तं विधीयमानं जिनभवनमपि दोषाय भवति यतस्तत्रैवोक्तं हरिभद्रसूरिणा
अहिगारिणा इमं खलु कारेयव्वं, विवजए दोसो । आणाभंगाउ चिय, धम्मो आणाइ पडिबद्धो ।।१४५।। आराहणाएँ तीए पुण्णं, पावं विराहणाए य ।
एयं धम्मरहस्सं विण्णेयं बुद्धिमंतेहिं ।।१४६ ।। (पश्चा० गा० ३०२, ३०३) १. ला० कृतकानि ॥ २. ला० महालकानि ॥ ३,४. ता० पु० सं ॥५. सं० वा० सु० षु महा ॥ ६. ला० ष्ववन्त्यादिषु ॥ ७. सं० वा० सु० 'वाधिकारी॥ ८. सं० वा० सु० मयमं ॥ ९. सं० वा० सु० °णरुई।