SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२४ सविवरण मूलशुद्धि प्रकरण द्वितीय स्थानके तच्च तदातोद्यं च-वादित्रं चतुर्विधातोद्यम्, तेन सुष्ठु प्रतिरवरूपतया वादनशीलानि यानि तानि तथा। ‘गन्धर्व-गीतध्वन्युद्धराणि' गन्धर्व-देवनिकायकृतं गानम्, गीतं तु मनुजविहितम्, तयोर्ध्वनि:-मूर्च्छनादि-युक्तशब्दविशेषस्तेनोद्धराणि उद्धतानि यानि तानि तथा । नित्यं सदा । 'प्रनृत्यत्सुनाटकानि' प्रकर्षेण नृत्यन्ति-लास्यवन्ति सुष्टु-शोभनानि, नाटकानि पात्रसञ्चयनिर्मितानि येषु तानि तथा । 'कुर्दद्रासकसहस्राकुलानि' कुर्दन्त:-उल्ललन्तो ये रासका:-हस्ततालादानपुरस्सरतीर्थकरादिगुणगानप्रवृत्तपुरुषविशेषाः, स्त्र्याधुपलक्षणं च पुंलिङ्गनिर्देश: । तेषां सहस्राणि-दशशतात्मकानि । बहुत्वसङ्ख्योपलक्षणमेतत् । तैः सङ्कुलानि आकीर्णानि यानि तानि तथेति वृत्तार्थ: ।।३२।। तथा वंदंत पूयंत समोयरंत, रंगंत वग्गंत थुणंतएहिं । णच्चंत गायंत समुप्पयंत, उक्किट्टिनायाइकुणंतएहिं ।।३३।। देवेहिं देवीहिँ य माणवेहिं, नारी तिरिक्खेहिँ य उत्तमेहिं । भत्तीऍ कोऊहल णिब्भरेहि, लक्खेहिँ कोडीहिँ समाकुलाई ।।३४।। 'वंदंत'त्ति वन्दमानैः चैत्यवन्दनं विदधर्दैि । 'पूयंत' त्ति पूजयद्भिः अष्टप्रकारादिपूजां कुर्वद्भिः । ‘समोयरंत'त्ति समवतरद्भिः आकाशादागच्छद्भिः । 'रंगंत'त्ति रङ्गद्भिः=इतश्चेतश्च मन्दमन्दभ्रमद्भिः । ‘वणंत'त्ति वल्गद्भिः=फालादिदानवद्भिः । 'थुणंतएहिंति स्तुवद्भिः स्तुतिस्तोत्राणि पठद्भिः । ‘णच्चंत'त्ति नृत्यद्भिः । 'गायंत'त्ति गायद्भिः । 'समुप्पयंत'त्ति समुत्पतद्भिः=आकाशं गच्छद्भिः । 'उक्किट्टिनायाइकुणंतएहि ति उत्कृष्टि-नादादिकुर्वद्भिः । तत्रोत्कृष्टिनाद:-सिंहनाद:, आदिशब्दाद् हयहेषितादिग्रहः । कैरेवं कुर्वद्भिः समाकुलानि ? इत्याह-'देवैः' सुरैः, 'देवीभिश्च' अप्सरोभिः । चशब्दो विद्याधर-विद्याधरीसूचकः । 'मानवै: मनुजैः, 'नारीभि: मनुषीभिः, 'तिरिक्खेहिं य'त्ति तिर्यग्भिश्च। 'उत्तमैः' प्रधानैः। पुनरपि तैः कथम्भूतैः ? इत्याह भक्त्या' अन्तर्वासनया, कौतुकेन च-कुतूहलेन, निर्भरै:=पूर्णैः । कियद्भिः? लक्षैः कोटिभिश्च, चकारो गम्यते । 'समाकुलानि' सङ्कीर्णानि । 'रम्याकुलानि वा' रम्याणीति वृत्तद्वयार्थः ।।३३-३४।। कानि जिनायतनानि निदर्शनीकृत्य तानि विधापयेद् ? इत्यत आह विमाणमाला-कुलपव्वएसुं, वक्खार-नंदीसर-मंदरेसुं । अट्ठावए सासय-ऽसासयाई, जिणालयाई व महालयाई ।।३५।। १. सं० वा० सु० उक्कुट्टिना' || २. ता० भत्तीय ।। ३. वा० सु० ला० रमाकु। ता० रवाकु ॥ ४. सं० वा० सु० द्भिः। पूज' ॥ ५. ला० उक्कुट्टिना ॥ ६,७. सं० वा० सु० 'त्कृष्टना ॥ ८. ला० मानुष्याभिः ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy