SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ जिनभवनवर्णना १२३ 'वातोद्भूतानेकध्वजाकुलानि' वातेन-समीरणेनोद्भूता: उत्क्षिप्ता:, अनेके-प्रभूताः, ध्वजा:देवकुलोपरिपताकारूपास्तै: आकुलानि-सङ्कीर्णानि यानि तानि तथेति वृत्तार्थः ।।२९।। तथा देवंग-पटुंसुय-देवदूसउल्लोयरायंतनिरंतराइं । विलोलमुत्ताहल-मल्लमालापालंबओऊलकुलाऽऽकुलाइं ।।३०।। पूर्वापरनिपाताद् ‘देवाङ्ग-पट्टांशुक-देवदूष्यराजदुल्लोचनिरन्तराणि' देवाङ्गानि-प्रधानसिचयानि, पट्टांशुकानि-पट्टसूत्रनिर्मितानि, देवदूष्याणि सुरवस्त्राणि, तै राजन् शोभमानो य उल्लोच: आकाशतलशोभा तेन निरन्तराणि व्याप्तानि यानि तानि तथा । विलोलमुक्ताफलमाल्यमालाप्रालम्बावचूलकुलाकुलानि' विलोला:=इतश्चेतश्चलन्त्यो मुक्ताफलानाम्-मौक्तिकानाम्, माल्यानां सुमनसाम्, या माला:-तद्ग्रथनरूपास्तासां प्रालम्बा:-लम्बमानपुष्पगण्डूषरूपास्तेषु अवचूला:-स्तबकास्तेषां कुलानि सङ्घातास्तैराकुलानि-व्याप्तानि यानि तानि तथेति वृत्तार्थः ।।३०।। तथा कप्पूर-कत्थूरिय-कुंदुरुक्क-तुरक्क-सच्चंदण-कुंकुमाणं । डझंतकालागरुसारधूयणीहारवासंतदिगंतराई ।।३१।। तत्र 'दह्यत्कालागरुसारधूपनिर्झरवास्यमानदिगन्तराणि' इति उत्तरार्धव्याख्या-दाश्चासौधूमावस्थामनुभवन् कालागरुसारश्च काकतुण्डागरुप्रधान: स चाऽसौ धूपश्च दह्यत्कालागरु-सारधूपः, तस्य निर्हार:=बहलगन्धस्तेन वास्यमानानि-सौगन्ध्यं नीयमानानि दिगन्तराणि येषु तानि तथा। केषां सम्बन्धीयो धूप: ? इत्यत आह 'कर्पूर-कस्तूरिका-कुन्दुरुक्क-तुरुक्क-सच्चन्दन-कुङ्कुमानाम्'इति पूर्वार्धम् । तत्र कर्पूर:=घनसारः, कस्तूरिका-मृगमदः, कुन्दुरुक्कं चीटा(डा), तुरुक्कंसीलकम्, सच्चन्दनं प्रधानश्रीखण्डम्, कुङ्कुमं-कश्मीरजम्, कर्पूरश्च कस्तूरिका चेत्यादिद्वन्द्वः, अतस्तेषामिति वृत्तार्थः ।।३१।। तथा चउव्विहाऽऽउज्जसुवजिराई, गंधव्व-गीयद्धणिउद्धुराई । णिचं पणच्चंतसुनाडंगाई, कुइंतरासासहसाऽऽउलाई ।।३२।। 'चतुर्विधातोद्यसुवादीनि' चतुर्विधं चतुःप्रकारं तत-वितत-घन-शुषिरभेदात्, तत्स्वरूपं च ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं च कांस्यतालादि, वंशादि शुषिरं स्मृतम् ।।१४२।। १. सं० वा० सु० धानानि खिच ॥ २. सं० वा० सु० 'नां या मा' ॥ ३. सं० वा० सु० 'लागुरु ॥ ४. ला० ता० दियंत ॥ ५-६. सं० वा० सु० 'लागुरु' ॥ ७. सं० वा० सु० "ण्डागुरु॥ ८. ला० ता० ‘डयाई ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy