SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२२ सविवरण मूलशुद्धि प्रकरण द्वितीय स्थानके दीर्घत्वं प्राकृतत्वात् । सह बलाणकेन जगतीनिर्गमद्वारेण वर्तन्ते यानि तानि तथा । विशालशालानि च तानि सबलाणकानि चेति समास: । 'सोपान-नानामणिमण्डितानि' सोपान:-अवतरणैः, नानामणिभिश्च= चन्द्रकान्तप्रभृतिभिः, मण्डितानि-शोभितानि यानि तानि तथा । पूर्वापरनिपाताद् वा नानामणिमण्डितसोपानानि। 'माणिक्य-चामीकर-कुट्टिमानि' माणिक्यानि=महारत्नानि, चामीकरं-सुवर्णम्, तन्मयं कुट्टिमम् उत्तानपट्टो येषु तानि तथेति वृत्तार्थः ।।२८।। तथा विचित्तविच्छित्तिविचित्तचित्त, सच्छत्त-भिंगार-स(सु)चामराई । ससालभंजी-मयरद्धइंध, वाउद्भुयाणेयधयाउलाई ।।२९।। विभक्तिलोपाद् 'विचित्रविच्छित्तिविचित्रचित्राणि' विचित्रा: नानाप्रकारा:, विच्छित्तयः स्फीतयो येषु तानि तथा । विचित्राणि शोभनानि, चित्राणि-चित्रकर्माणि, येषु तानि तथा । विचित्रविच्छित्तीनि च तानि विचित्रचित्राणि चेति समासः । तथा पाठान्तराद्वा विचित्रा: अनेकप्रकारा:, विच्छित्तयः भक्तयः, ताभिर्विभक्तानि असम्मिलितानि पूतानि वा चित्राणि येषु तानि तथा । 'सच्छत्र-भृङ्गार-सुचामराणि' छत्रम् आतपत्रम्, तच्च छत्रत्रयरूपम् । तत् तु त्रैलोक्यदेवाधिदेवत्वसंसूचकं जिनस्यैव भवति । भण्यते च छत्तत्तउ तउ उवरि देवइंदिण करि धरियउ, कणयडंडुवरि हारलोलमालहिँ परियरियउ । तिजगमज्झि देवाहिदेवु किर अन्नु न अइसउ, -पयडइ एउ निरुत्तु एहु 'जण ! कुणहु म संसउ' ।।१४०।। भृङ्गारा: गजमुखाकृतयः स्नात्रोपयोगिभाजनविशेषाः । सुचामराणि-प्रधानप्रकीर्णकानि । ततश्च छत्रं च भृङ्गाराश्चेत्यादिद्वन्द्वस्तै: सह वर्तन्ते यानि तानि यथा । 'सशालभञ्जिका-मकरध्वजचिह्नानि' सह शालभञ्जिकाभि: लेप्यादिमयपुत्रिकाभिर्मकरध्वजचिह्नन च-महा(?झष)केतुलाञ्छनरूपेण वर्तन्ते यानि तानि तथा । मकरध्वजचिह्न हि मकरकेतनजयसंसूचकम् । भण्यते च तत्तुत्तिन्नवरेन्नवन्नसुसुवण्णविणिम्मिउ, __ जम्मि दंडु तंह धवलु चेलु मंदानिलघुण्णिउ । सो जाणह अरहंतचिंधु ऍहु गहिउ महद्धउ, णिजिणेवि जयजिणणजोहु दुजउ मयरद्धउ ।।१४१ ।। १. विभत्तचित्त इति टीकाकृनिर्दिष्टं पाठान्तरम् ॥ २. ला० 'देउ ॥ ३. सं० वा. सु० प्रधानानि प्रकीर्णकविशेषाः। ततश्च ।। ४. सं० वा० सु० तहिँ ॥ .
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy