SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ जिनभवनाख्यं द्वितीयं स्थानकम् व्याख्यातं प्रथमस्थानकम् । तदनन्तरं च क्रमायातं द्वितीयमारभ्यते । अस्य च पूर्वेण सहायमभिसम्बन्ध: — पूर्वत्र जिनबिम्बकृत्यमभिहितम् । प्रतिष्ठितस्य जिनबिम्बस्य चैत्यगृहेण प्रयोजनमिति जिनभवनविधानमनेनोच्यत इति । अनेन सम्बन्धेनायातस्यास्यादिसूत्राणि दश । जिणिंदयंदाण य मंदिराई, आणंदसंदोहणिसंदिराई । रम्माइँ रुंदाणि य सुंदराई, भव्वाण सत्ताण सुहंकराई ।। २७ ।। 'जिणिंदेयंदाण' त्ति जिनेन्द्रचन्द्राणाम्, जिना: = अवधिजिनादयस्तेषामिन्द्राः सामान्यकेवलिनो जिनेन्द्रास्तेषां चन्द्रा इव अष्टमहाप्रातिहार्याद्यैश्वर्ययुक्तत्वाद् उपरिवर्तिनस्तीर्थकृतो जिनेन्द्रचन्द्रास्तेषां सम्बन्धीनि। ‘मंदिराई’ति मन्दिराणि = आयतनानि विधापयेद् गृहीति दशमवृत्तपर्यन्ते (३६ तमे ) क्रिया-कारकसम्बन्धः । कीदृग्विधानि तानि ? । अत आह 'आणंदसंदोहणिसंदिराई 'ति प्राकृतत्वाद् आनन्दसन्दोहनिष्यन्दवन्ति, आनन्दः = सम्मदस्तस्य सन्दोहः = सङ्घात आनन्दसन्दोहस्तस्य निष्यन्दः = निर्यासः स विद्यते येषु तदुत्पादकत्वेन तानि तथा । तथा — आणंदणिब्भरंगो कयंबपुप्फं व पुलइओ पाणी । जहंसणेण जायइ कारेज्ज जिणालयं तमिह । । १३९ ।। 'रम्माइं' ति रम्याणि= रमणीयानि । ' रुंदाणि य'त्ति रुन्दानि = विस्तीर्णानि । 'च' समुच्चये । ‘सुंदराइं’ति सुन्दराणि=वास्तुविद्याभिहितयथावत्स्तरादिन्यासयुतानि । 'भाव्वाण'त्ति भव्यानां = मुक्तितगमनयोग्यानाम् । 'सत्तीण' त्ति सत्त्वानां = प्राणिनाम् । अनुस्वारस्याऽलाक्षणिकत्वात्, 'सुखकराणि' शर्मोत्पादकानि, शुभकराणि वा कल्याणहेतुभूतानि । अत्र भव्यग्रहणेनाऽभव्यानां निषेधमाह, यतस्तेषामास्तां जिनभवने, जिनेऽपि दृष्टे न सौख्यमुत्पद्यते पालकादीनामिवेति वृत्तार्थ: ।।२७।। तथा मेरु व्व तुंगाइँ सतोरणाई, विसालसालासबलाणयाइं । सोपाण-णाणामणिमंडियाई, माणेक्क- चामीकरकुट्टिमाई ।। २८ ।। ‘मेरु’व्व देवाचलमि(इ)व । ‘तुङ्गानि' उच्चानि । 'सतोरणानि ' ईलिकातोरणयुतानि । ‘विशालशालासबलाणकानि' विशाला:- विस्तीर्णाः, शाला: = पट्टशाला येषु तानि तथा । शालाशब्दे १ - २. ला०ता० दइंदाण ॥ ३. ला० ण य त्ति ॥ ४. ला० तानि ? एतदाह ॥ ५. ला० युक्तानि ॥ ६. सं० वा० सु० 'त्ताणं ति ॥ ७ ला० 'व्यादीनां ॥ ८. ला० पु० सोमाण ॥ ९. ला० ता० माणिक्क ॥ १०. ला० ईलका ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy