________________
१२०
सविवरण मूलशुद्धि प्रकरण प्रथम स्थानके चैत्यद्रव्यं =जिनेन्द्रबिम्बवित्तम् । साधारणं च-सङ्घसम्बन्धि च । य: पापकर्मा । द्रुह्यति भक्षयति। धर्म-नि:स्पृहतालक्षणम् । वाशब्दात् तद्भोगविपाकं च न जानाति । 'अथवा' इति प्रकारान्तरे । बद्धायुर्नरकादिषु, द्रोहणकालात् पूर्वमिति । किञ्च आस्तां श्रावकः साधूनापि तद्विनाशे नोपेक्षा विधेया । यत:
चेइयदव्वविणासे तद्दव्वविणासणे दुविहभेए । साहू उविक्खमाणो अणंतसंसारिओ होइ ।।१३४।। (उप० ग० ४१५)
चैत्यद्रव्यविनाशे । तद्रव्यं = तदुपयोगिदारूपलेष्टकादि । द्विविधभेदे नूतनलग्नोत्पाटितभेदात्, मूलोत्तरभेदाद्वा द्विप्रकारे । मूलं-स्तम्भ-कुम्भिकादि, उत्तरं छादनादि, तस्मिन् । यद्वा द्विविधभेदे स्वपक्ष-परपक्ष-जनितविनाशे । तथा
संजइचउत्थभंगे चेइयदळ्वे य पवयणुड्डाहे ।
इसिघाए य चउत्थे मूलग्गी बोहिलाभस्स ।।१३५।। 'वद्धणं च' त्ति वर्धनं-कलान्तरप्रयोगादिना वृद्धिनयनम् । यत:
जिणपवयणवुट्टिकरं पभावणं णाण-दंसण-गुणाणं । वहतो जिणदव्वं तित्थयरत्तं लहइ जीवो ।।१३६ ।। चेइय-कुल-गण-संघे उवयारं कुणइ जो अणासंसी । पत्तेयबुद्ध गणहर तित्थयरो वा तओ होइ ।।१३७ ।।
(उप० गा० ४१८-४१९) 'अनाशंसी' निस्पृहसेवोऽसौ
जो निरुवलेवचित्तो चेइयदव्वं विवडए सो उ'।
भुंजित्तु पवरलच्छिं संपावइ सासयं ठाणं ।।१३८।। कारयेदिति क्रिया सर्वत्र सम्बन्धनीया । ‘इति:' प्रकरणपरिसमाप्ताविति वृत्तार्थः ।।२६।।
इति श्रीदेवचन्द्राचार्यविरचित्ते मूलशुद्धिविवरणे प्रथमस्थानकविवरणं समाप्तम् ।।
१. ला० ०णविद्धिकरं || २. ला. वड़ितो ॥ ३. ला० निःस्पृहः तकोसौ ॥