________________
११६
सविवरण मूलशुद्धि प्रकरण प्रथम स्थानके
अतिशोषः, रागात् कालपरिणाम इति । किञ्च
संतावचित्तखेयं णाणाविहआवईओ मरणं च ।
धम्म-ऽत्थ-कामहाणिं लहइ णरो सोगसंतत्तो ।।११४।। ‘णिहीण'त्ति भावप्रधानत्वाद् निहीनत्वम् अकिञ्चित्करत्वम् तदप्यशर्मकारि । यत:
प्रिंदिज्जइ अणवरयं पुरिसो णियणिद्धबंधवेहिं पि । रूंयजुओ वि हु ण हु जो, समत्थओ कजकरणम्मि ।।११५।। दीनत्वं सत्त्वविकलता, मानसिक-शारीरिकासुखनिमित्तं च तत् । यत:जनक ! सहोदर ! मामक ! पितृव्य ! सुत ! भागिनेय ! मम कार्यम् । एतत् कुरु देहीदं लल्लिं दीन: करोतीत्थम् ।।११६ ।।
सन्तापश्च संयोगश्च वियोगश्च शोकश्च निहीनत्वं च दीनत्वं च संताप-संयोग-वियोग-शोकनिहीन-दीनत्वानि, तान्यादिर्येषां व्याधि-पारवश्या-ऽङ्गच्छेदादीनां तानि तथा, तेषाम् । 'तिक्खाण दुक्खाण' त्ति तीक्ष्णानां असह्यानां दु:खानाम् अशर्मणाम् । 'भवुब्भवाणं ति संसारोत्थानम् । न-नैव । ‘भायणं ति भाजनं स्थानम् । 'होइ'त्ति भवति-जायते । 'भवंतरे वि' त्ति भवान्तरेऽपि-जन्मान्तरेऽपि, आस्तामिह जन्मनीत्यपि शब्दार्थः । इति वृत्तद्वयार्थः ।।२२-२३।।
जिनबिम्बपूजाकारी यादृग्विधो न भवति तदुक्तम् । साम्प्रतं यादृशो भवति तद् वृत्तद्वयेनाऽऽह
भवे पुणोऽसेससुहाण ठोणं, महाविमाणाहिवई सुरेंदो । तओ चुओ माणुसभोगभागी, रायाहिराया व धणाहिवो वा ।।२४।। कलाकलावे कुसलो कुलीणो, सयाणुकूलो सरलो सुसीलो । सदेवमच्चा-ऽसुरसुंदरीणं, आणंदयारी मण-लोयणाणं ।।२५।।
'भवे'त्ति प्राकृतत्वाद् भवति जायते । पुन:शब्दो भिन्नवाक्यार्थः । ‘असेससुहाणं'ति अशेषसुखानां समस्तसौख्यानां दारिद्यादिविपरीतानाम् । 'ठाणं'ति स्थानम् =आस्पदम् । पूर्वत्रेहलोक-परलोकयो: प्रस्तुतत्वाद, एतदिहलोके । परलोके तु 'महाविमाणाहिवई' त्ति महाविमानाधिपति: महान्ति च तानि बृहत्प्रमाणानि विमानानि च देवनिकेतनानि महाविमानानि,
१. ला० रूवजु ॥ २. ला० त्वं च सत्त्व' ॥ ३. ता० थाणं ।। ४. ला० सुरिंदो ॥ ५. सं० वा. सु० त्वादिह ॥ ६. सं० वा० सु० के महा ||