________________
११४
सविवरण मूलशुद्धि प्रकरण प्रथम स्थानके निर्मलोज्ज्वलजलोपशोभितं, पूर्णपात्रनिकरं कृतादरः ।
ढोकयेत् सततमेव वेश्मभाग्, जातसान्द्रपुलको जिनाग्रतः ।।१०७।। ___ इह पूर्वत्रं च चकारोऽनुक्तसमुच्चये, तेन नैवेद्य-वस्त्रा-ऽऽभरण-विलेपनादिपूजानामप्यष्टप्रकारपूजायामन्तर्भावो द्रष्टव्य इति वृत्तार्थः ।।२१।।
उक्तं पूजास्वरूपम् । साम्प्रतं यादृग्विधविशेषणयुक्तः सन् जिनबिम्बपूजाप्रवृत्तः प्राणी यादृग्विधदु:खभाग् न भवति तद् वृत्तद्वयेनाऽऽह
पूयं कुणंतो बहुमाणवतो, उदारचित्तो जिणभत्तिजुत्तो । दारिद्द-दोहग्ग-दुरंतदुक्ख-दुव्वण्ण-दुग्गंध-दुरूवयाणं ।।२२।। संताव-संजोग-वियोग-सोग-णिहीण-दीणत्तणमाइयाणं । तिक्खाण दुक्खाण भवुब्भवाणं, ण भायणं होइ भवंतरे वि ।।२३।।
‘पूर्य'ति, पूजां सपर्या पूर्वोक्ताम् । 'कुणंतो'त्ति कुर्वन् विदधानः । 'बहुमाणवंतो'त्ति बहुमानवान् आन्तरप्रीतिविशेषयुक्तः सन् अटवीमध्यस्थितशिवकपूजार्थनिरूपितधार्मिकविहितविशिष्टपूजावामपादोत्सारकशिवकोपरिक्षिप्तमुखगण्डूषदक्षिणहस्तस्थितपुष्पपूजाकरणानन्तरपादपतितशिवकसम्भाषणकुपितधार्मिकप्रत्ययार्थोत्सारितैकलोचनशिवकदर्शनोद्भूतखेदबहुमानवशपरवशीभूतभल्ल्युत्खातनिजलोचनप्रदपुलिन्द्रकवत् । पुनरपि कथम्भूत: ? 'उदारचित्तो' त्ति उदारचित्त: अकृपणाशयः । पुनरपि कीदृशः ? 'जिणभत्तिजुत्तो'त्ति जिनभक्तियुक्तः, जिना:रागादिजेतारस्तीर्थकृतः, तेषां भक्ति: बाह्यकृत्यकरणरूपा तया युक्त:-समन्वितो जिनभक्तियुक्तः । ‘ण भायणं होइ भवंतरे वि' इति सण्टङ्कः । केषाम् ? इत्याह-'दारिद्द-दोहग्ग-दुरंतदुक्ख- दुव्वण्णदुग्गंध-दुरूवयाणंति दारिद्यं=निर्द्रव्यता, तच्च सर्वापदामास्पदम् । उक्तं चनिर्द्रव्यो ह्रियमेति हीपरिगतः प्रभ्रश्यते तेजसो,
निस्तेजा: परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविहतो बुद्धेः परिभ्रश्यति,
भ्रष्टश्च क्षयमेत्यहो ! निधनता सर्वापदामास्पदम् ।।१०८।। १. सं० वा० सु० 'त्र चकारो ॥ २. सं० वा० सु० पूजनमप्य' । ३. सं० वा० सु० धशेषगुणयुतः सन् || ४. ला० ता० दालिद्द ॥ ५. सं० वा० सु० भवोन्म ॥ ६. दृश्यतां बृहत्कल्पसूत्रप्रथमांशस्य २५३ तमपत्रप्रथमटिप्पणीगतं कल्पचूर्णे निष्टङ्कितमे तदुहारणम् ॥ ७. सं० वा० सु० 'त: उदारचित्तः ॥ ८. ला० पुन: कीदृ ॥ ९. सं० वा० सु० या संयुक्तः॥ १०. ला० सम्बन्धः ॥ ११. ला० 'स्पदम् यत उक्तम्-नि ॥ १२. ला. "हो अधन ॥