________________
जिनपूजाफलवर्णना सारङ्गमद-मीनोद्गारा-ऽगरु-प्रभृतिद्रव्यनिकरसंयोगैः । उक्तं च
कर्पूरा-ऽगरु-चन्दनादिसुरभिद्रव्यव्रजोत्पादितै
वयुल्लासितलोलधूमपटलव्याप्तावकाशैर्दिशम् । सान्द्रामोदहृतालिजालजटिलैर्घाणेन्द्रियाह्लादिभि
धूपैर्धन्यजना जिनस्य सततं कुर्वन्ति पूजां मुदा ।।१०१।। तथा 'दीवेहिं यत्ति दीपैश्च-अन्धकारापहवर्ति-तैलसंयोगप्रज्वालिताग्निकलिकारूपैः उक्तं चपूजाविधौ विमलवर्तिसुगन्धतैलैरुद्यत्प्रभाहितदेवगृहान्धकारम् । श्रीमजिनेन्द्रपुरतः प्रतिबोधयन्ति, धन्या नरा विशदभक्तिभरेण दीपम् ।।१०२।। तथा अक्खएहिंति अक्षतैः अष्टमङ्गलकादिरचनारचिताखण्डशाल्यादितण्डुलैः । उक्तं चशङ्ख-कुन्दावदातै लक्षालितैर्गन्धशालैर्विशालैः सुगन्धोत्कटैः ।
सर्वदैवाक्षतैरक्षतैः पूजनं, तीर्थनाथस्य भक्त्या विधेयं बुधैः ।।१०३।। तथा ‘णाणाफलेहिं च' त्ति नानाफलैश्च अनेकप्रकारपाकपूताम्रादिफलविशेषैः । उक्तं चपाकाधिरूढविविधोज्ज्वलवर्णशोभैर्नेत्राभिरामरचनैः स्पृहणीयगन्धैः । नानाफलैरपि च सुन्दरकन्द-मूलैः, पूजां जिनेन्द्रपुरत: प्रथयन्ति धन्याः ।।१०४।। तथा ‘घएहिति घृतैः-प्राज्याज्यभेदैः । उक्तं च
स्वच्छैरिन्द्रियसौख्यहेतुभिरलं सद्भाजनेष्वर्पिते
राज्यैः प्राज्यसुगन्धवर्णकलितैनि:शेषदोषापहैः । राग-द्वेषमदोद्भुरारिजयिनः श्रीमजिनस्याऽग्रतः ।
पूजां धन्यजनाः प्रहृष्टमनसः कुर्वन्ति सद्भक्तितः ।।१०५।। 'निच्चति नित्यं प्रतिदिनम् । यत:
प्रतिदिवससञ्चयाद् वृद्धिमेति पुण्यं यदल्पमपि भवति ।
सरघामुखमात्रचितं, यथा हि मधु घटशतीभवति ।।१०६ ।। एतच्च विशेषणं समस्तपूजास्वायोज्यम् । तथा ‘पाणीयपुण्णेहिँ य भायणेहिंति चकारस्य व्यवहितसम्बन्धात् पानीयपूर्णभाजनैश्च सुगन्धि-स्वच्छ-शीतलजलभृतकरकादिस्थानविशेषैः । उक्तं च
१. सं० वा० सु० ‘रागुरु' ।।