________________
जिनपूजावर्णनम्
१०७
‘महारिहेहिं’ति महार्हैः = गौरव्यैः । ' अट्टप्पयार'त्ति अष्टप्रकारा= अष्टभेदा । 'पडिर्माण' त्ति प्रतिमानां=जिनप्रतिकृतीनाम् । 'पूय'त्ति पूजा = सपर्येति वृत्तार्थः ।।२०।।
तस्या एवाऽष्टप्रकारपूजायाः प्रतिपादनार्थमाह वृत्तम् —
पुप्फेहिं गंधेहिँ सुगंधिएहिँ, धूवेहिं दीवेहिँ य अक्खएहिं । णाणाफलेहिं च घएहिँ णिच्वं, पाणीयपुण्णेहिं य भायणेहिं । । २१ । । ‘पुप्फेहिं'ति पुष्पैः=जात्यादिकुसुमैः, पूजां कुर्यादिति पूर्ववृत्तानुवृत्तेन सम्बन्धः । उक्तं च
प्रत्यग्रोन्मेषनिर्यद्बहलपरिमलैर्गुम्फसौन्दर्यरम्यै
भ्राम्यत्सौगन्ध्यलुब्धभ्रमरकुलकलक्वाणवाचालितान्तैः । पुष्पैः किञ्जल्कवद्भिर्जलकणकलितैः प्रत्यहं पुण्यभाज:, श्रीमज्जैनेन्द्रबिम्बं पुलकितवपुषः पूजयन्त्यादरेण ।। ९७ ।। तथा 'गंधेहिं 'ति गन्धैः = वासैः । उक्तं च
जातीफलेला-मलयोद्भवादिक्षोदोद्भवत्वात् स्फुटजातगन्धैः । कर्पूरपानीयकृताधिवासै र्वासैर्जिनं पुण्यकृतोऽर्चयन्ति ।।९८।।
सुगंधिएहिं’ति सुगन्धिभिः = घ्राणेन्द्रियैप्राणिजनकैः । । एतच्च विशेषणमुभयपदयोरप्यायोज्यम् । यतः पुष्पैरपि सुगन्धिभिरेव पूंजा विधेया, सुगन्धिपुष्पसद्भावे विशिष्टभावोत्पादकत्वात् । उक्तं च
पवरेहिँ साहणेहिं पायं भावो वि जायए पवरो ।
न य अण्णो उवओगो एएसिँ सयाण लट्ठयरो ।। ९९ ।। ( पञ्चा० गा० १६० ) अथ चेत् सुगन्धिपुष्पाण्येव न सम्पद्यन्ते, शक्तिर्वा न भवति, ततो यथासम्भवमपि पूजा विधीयमाना गुणाय सम्पद्यते । उक्तं च
कल्हारपत्तियाए णइणीरेणं जिणेंदपूयाए ।
धन्ना कल्लाणपरंपराऍ मोक्खम्मि संपत्ता । । १०० ।।
अत्र चोक्तगाथायां धन्याकथानकं सूचितम् । तदपि मुग्धनपूजाभावर्प्रकर्षप्रतिपादनार्थं लिख्यते—
१. सं० वा० सु० माणं' ति ॥ २. ला० ° नार्थं वृत्तमाह ॥ ३. ला० सुहं (यं) धि ॥ ४. ला० 'यप्रीतिजन ॥ ५. ला० °या यथाशक्तिपुष्प' ॥ ६. ला० प्रकर्षसम्पादनार्थं ॥