SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ जिनपूजावर्णनम् १०७ ‘महारिहेहिं’ति महार्हैः = गौरव्यैः । ' अट्टप्पयार'त्ति अष्टप्रकारा= अष्टभेदा । 'पडिर्माण' त्ति प्रतिमानां=जिनप्रतिकृतीनाम् । 'पूय'त्ति पूजा = सपर्येति वृत्तार्थः ।।२०।। तस्या एवाऽष्टप्रकारपूजायाः प्रतिपादनार्थमाह वृत्तम् — पुप्फेहिं गंधेहिँ सुगंधिएहिँ, धूवेहिं दीवेहिँ य अक्खएहिं । णाणाफलेहिं च घएहिँ णिच्वं, पाणीयपुण्णेहिं य भायणेहिं । । २१ । । ‘पुप्फेहिं'ति पुष्पैः=जात्यादिकुसुमैः, पूजां कुर्यादिति पूर्ववृत्तानुवृत्तेन सम्बन्धः । उक्तं च प्रत्यग्रोन्मेषनिर्यद्बहलपरिमलैर्गुम्फसौन्दर्यरम्यै भ्राम्यत्सौगन्ध्यलुब्धभ्रमरकुलकलक्वाणवाचालितान्तैः । पुष्पैः किञ्जल्कवद्भिर्जलकणकलितैः प्रत्यहं पुण्यभाज:, श्रीमज्जैनेन्द्रबिम्बं पुलकितवपुषः पूजयन्त्यादरेण ।। ९७ ।। तथा 'गंधेहिं 'ति गन्धैः = वासैः । उक्तं च जातीफलेला-मलयोद्भवादिक्षोदोद्भवत्वात् स्फुटजातगन्धैः । कर्पूरपानीयकृताधिवासै र्वासैर्जिनं पुण्यकृतोऽर्चयन्ति ।।९८।। सुगंधिएहिं’ति सुगन्धिभिः = घ्राणेन्द्रियैप्राणिजनकैः । । एतच्च विशेषणमुभयपदयोरप्यायोज्यम् । यतः पुष्पैरपि सुगन्धिभिरेव पूंजा विधेया, सुगन्धिपुष्पसद्भावे विशिष्टभावोत्पादकत्वात् । उक्तं च पवरेहिँ साहणेहिं पायं भावो वि जायए पवरो । न य अण्णो उवओगो एएसिँ सयाण लट्ठयरो ।। ९९ ।। ( पञ्चा० गा० १६० ) अथ चेत् सुगन्धिपुष्पाण्येव न सम्पद्यन्ते, शक्तिर्वा न भवति, ततो यथासम्भवमपि पूजा विधीयमाना गुणाय सम्पद्यते । उक्तं च कल्हारपत्तियाए णइणीरेणं जिणेंदपूयाए । धन्ना कल्लाणपरंपराऍ मोक्खम्मि संपत्ता । । १०० ।। अत्र चोक्तगाथायां धन्याकथानकं सूचितम् । तदपि मुग्धनपूजाभावर्प्रकर्षप्रतिपादनार्थं लिख्यते— १. सं० वा० सु० माणं' ति ॥ २. ला० ° नार्थं वृत्तमाह ॥ ३. ला० सुहं (यं) धि ॥ ४. ला० 'यप्रीतिजन ॥ ५. ला० °या यथाशक्तिपुष्प' ॥ ६. ला० प्रकर्षसम्पादनार्थं ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy