SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०६ सविवरण मूलशुद्धि प्रकरण प्रथम स्थानके च-प्रभाचक्रवालम्, तेन मण्डिता: शोभिता महाभामण्डलमण्डिता: । 'संताउ'त्ति शान्ता: रागद्वेषादि-संसूचकरमणी-प्रहरणादिचिह्नरहितत्वेन प्रशान्ताकृतयः। 'कंताउ'त्ति कान्ता:-दीप्तिमती: । 'मणोहराओ'त्ति मनोहरा:-चित्तानन्ददायिनी: । 'भव्वाणं'ति भव्यानां= मुक्तिगमनयोग्यानाम् । ‘णिव्वाणणिबंधणाओ'त्ति निर्वाणनिबन्धना:-मोक्षहेतुभूताः, विशिष्टभावोल्लासहेतुभूतत्वेन कर्मक्षयकारका इति भावः । उक्तं च पासाईया पडिमा लक्खणजुत्ता समत्तऽलंकरणा । जह पल्हाएइ मणं तह णिजर मो वियाणाहि ।।१४।। दह्रण मणभिरामं पसंतबिंबं जिणस्स भव्वजिया । आणंदपूरियंगा हवंति सिहिणो व्व घणसमए ।।९५।। 'निम्मावएज'त्ति निर्मापयेद्-विधापयेत् । 'पडिम'त्ति प्रतिमा:=प्रतिकृती: । 'पराउ'त्ति परा:=प्रधानाः। इति वृत्तद्वयार्थः ।।१८-१९।। केषां सम्बन्धिनी: प्रतिमा: ? इत्याह जिणेंदचंदाण णरेंद-चंद-नागेंद-देवेंदऽभिवंदियाणं । इति वृत्तार्द्धम् । 'जिणेंदचंदाण'त्ति जिनेन्द्रचन्द्राणाम्, जिना:=अवधिजिनादयः, तेषामिन्द्रा:-स्वामिन: सामान्यकेवलिन:, तेषां चन्द्रा इव चन्द्रा जिनेन्द्रचन्द्राः तीर्थकृतः, तेषां प्रतिमा निर्मापये दिति सण्टङ्कः । कथम्भूतानां तेषाम् ? अत आह-'नरेंद-चंद-नागेंददेवेंदऽभिवंदियाणं'ति नरेन्द्रा: चक्रवर्त्यादय: चन्द्रा:-ज्योतिष्केन्द्राः, नागेन्द्रा: भवनपतिविशेषनायका: शेषभवनपतीन्द्रोपलक्षणमे तत्, देवेन्द्राः त्रिदशपतयः, नरेन्द्राश्च चन्द्राश्चेत्यादिद्वन्द्वः, तैरभिवन्दिता नमस्कृता ये ते तथा [? तेषाम्] । उक्तं च सुर-असुर-जोइसाणं वण-विजाहर-णराण जे पहुणो । भत्तिभरणिन्भरेहिं जिणेंदचंदा णमेज्जंति ।।१६।। तासां प्रतिमानां स्व-परकारितानां यद् विधेयं तद् उत्तरार्धेनाऽऽह कुजा महग्घेहिँ महारिहेहिं, अट्ठप्पगारा पडिमाण पूया ।।२०।। इति वृत्तार्धम् । 'कुंज'त्ति कुर्याद्-विदध्यात् । 'महग्घेहिंति महाघैः-महामूल्यैः । १. पु० जिणिंदयंदाण ॥ २. ला० याणं ति । वृत्ता' ॥ ३. सं० वा० सु० "न्द्राः सामा' ॥ ४. सं० वा० सु० "ता ये ते ॥ ५. ला० तासां च प्र” ॥ ६. ला० ता० 'प्पयारा || ७. सं० वा० सु० प्रतिषु 'कुज त्ति इति पाठो नास्ति ।
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy