________________
जिनप्रतिमावर्णना
१०५
तथा 'संजईणं'ति संयतीनां साधुगुणोपेतसाध्वीनाम् । तथा 'आणाईसावय'त्ति विभक्तिलोपाद् आज्ञारुचिश्रावकाणाम् । आज्ञा-भगवदादेशस्तस्यां रुचि:=श्रद्धा येषां ते आज्ञारुचयः, शृण्वन्ति यतिमुखात् साधु-श्रावकसामाचारीमिति श्रावकाः । उक्तं च
संपत्तदंसणाई पइदियहं जइजणा सुणेई इ ।
सामायारिं परमं जो खलु तं सावगं बेंति ।।१३।। आज्ञारुचयश्च ते श्रावकाच-उपासका आज्ञारुचिश्रावकास्तेषाम् । तथा 'सावियाणं'ति श्राविकाणां-पूर्वोक्तगुणयुक्तोपासिकानाम् । 'समायरेज'त्ति समाचरेत्=कुर्यात् । 'उचियं' ति उचितं-सप्तस्थानकयथायोग्यं कृत्यम् । तमेय'ति तदेतद् वक्ष्यमाणं कृत्यमिति वृत्तार्थः ।।१७।।
'यथोद्देशं तथा निर्देशः' इति न्यायमाश्रित्य बिम्बानामुचितं यत् प्राग् विधेयतयोक्तं तद् वृत्तद्वयेन प्रतिपादयति
.. जिनबिम्बाख्यं प्रथम स्थानकम् । वजेंदनीलं-इंजण-चंदकंत-रिटुं-उंक-कक्केयण-विहुँमाणं । सुवण्ण-रुप्पा-ऽमलफालियाणं, साराण दव्वाण समुन्भवाओ ।।१८।। महंतभामंडलमंडियाओ, संताओ कंताओ मणोहराओ । भव्वाण णिव्वाणणिबंधणाओ, णिम्मावएजा पडिमा वराओ ।।१९।।
'वज'त्ति वज्राणि-सर्वरत्नप्रधानानि हीरका इत्यर्थः । 'इंदनील' त्ति इन्द्रनीलानि नीलवर्णमहारत्नानि । 'अंजण'त्ति कज्जलरुचिरत्नानि । 'चंदकंत'त्ति चन्द्रकान्ता: रजनिकरकरनिकरसंसर्गनीरक्षरणस्वभावा मणयः। 'रिट्ठ'त्ति रिष्टानि-कृष्णरत्नानि । 'अंक'त्ति अङ्का:-शुभ्ररत्नविशेषाः । 'कक्के यण' ति कर्के तकानिपीतरत्नानि । 'विदुम'त्ति विद्रुमाणि-प्रवालकानि । वज्राणि चेन्द्रनीलानि चेत्यादिद्वन्द्वस्तेषां सम्बन्धिनी: । तथा ‘सुवण्ण'त्ति सुवर्ण-काञ्चनम् । ‘रूप्पत्ति रूप्यं रजतम् । 'अमलफालिय'त्ति अमलस्फटिका:=निर्मलार्कोपला: । सुवर्णं च रूंप्यं चामलस्फटिकाच सुवर्ण-रूप्या-ऽमलस्फटिकाः, तेषां सम्बन्धिनी: । तथान्येषामपि 'साराणं'ति साराणाम् उत्तमानाम् । ‘दव्वाणं'ति द्रव्याणां वस्तूनाम् । ‘समुन्भवाओ'त्ति समुद्भवा: तत्समुत्था: । 'महंत-भामंडलमण्डियाओ'त्ति महच्च तद्-विशालं भामण्डलं
१. सं० वा० स० यि ति ॥ २. ला० ०योग्यकत्यम ॥ ३. सं० वा० सु० तमेवं तदे०॥ ४. ला वजिंद ॥ ५. ला० संता य कंता य मणो ॥ ६. सं० वा. सु० वजे ति ॥ ७. सं० वा० सु० सम्बन्धीनि ।। ८,१०. ला० रूप्रं ॥ ९. सं० वा० सु० लस्फाटिका ॥ ११. ला० रूप्रा ॥