________________
सम्यक्त्वमाहात्म्यादि
१०३ महाणिहाणं'ति माणिक्यानि-महामौक्तिकानि, नाना=अनेकप्रकारा मण्यादय:-चन्द्रकान्ताद्याः, आदिशब्दाद् हीरकादिग्रहः, मुक्ता:-मौक्तिकानि, शिला: स्फटिकोपला:, प्रवालानि-विद्रुमाणि, अमललोहिताक्षाणि निर्मलरक्तरत्नानि, सुवर्णं काञ्चनम्, माणिक्यानि च नानामणयश्चेत्यादिद्वन्द्वः, तैः पूर्ण-भृतं महानिधानवत्-तबृहद्भाजनमिव । तथा हि
जह बहुविहमाणिक्काइदव्वपरिपूरियं महणिहाणं । संसारिअणेयसुहाण कारणं होइ जीवस्स ।।८२।। तह बहुविहधम्मविसेससंजुयं संम्मदरिसणमिमं पि ।
अचंतियनिरुवममोक्खसोक्खसंसाहगं होइ ।।८३।। इति वृत्तद्वयार्थः ।।१४-१५।। एतच्चेदृग्विधं महाप्रभावमत्यन्तदुःप्रापं चावाप्य यद्विधेयं तदाह
एयं महापुण्णफलं सहावसुद्धीऍ लभ्रूण अलद्धपुव्वं ।
जिणाणमाणाएँ पयट्टियव्वं, विसेसओ सत्तसु ठाणएसु ।१६।। 'एयं'ति एतत् पूर्वोक्तम् । ‘महापुण्णफलं'ति महापुण्यफलं-बृहच्छुभसञ्चयकार्यम् । यत:
बहुभवकोडीविरइयकम्ममहासेलदलणवरकुलिसं । पाविजइ सम्मत्तं उवज्जिए पुण्णसंघाए ।।८।। मोक्खमहातरुणिरुवहयबीयभूयं विसुद्धसम्मत्तं ।
जं लब्भइ जीवेहिं तं बहुविहपुण्णमाहप्पं ।।८५।। 'सहावसुद्धीए' त्ति स्वभावशुद्ध्या अकामनिर्जरादिकर्मक्षयावाप्तपञ्चदशाङ्गीक्रमलक्षणया । उक्तं च
भूएसु जंगमत्तं, तेसु वि पंचेंदियत्तमुक्कोसं । तत्तो वि य माणुस्सं, माणुस्से आरिओ देसो ॥८६॥ देसे कुलं पहाणं, कुले पहाणे य जाइ उक्कोसा । तीय वि रूवसमिद्धी, रूवे वि बलं पहाणयरं ॥८७॥
१. ला० सारियणेय ॥२. ला० सम्मदंसणमिमं ॥३. ला० सुद्धीअल । ता० सुद्धीय ल ॥४. ला० क्तं महापुण्य ॥ ५. ला० °ण्णपब्मारे ॥६.सं० वा० सु० तीए रू० ॥