SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०२ सविवरणे मूलशुद्धि प्रकरणे 'मूलं'ति, मूलमिव मूलं कन्दोऽधोवर्त्ति । ‘इम' एतत् सम्यक्त्वम् । 'धम्ममहादुमस्स'त्ति धर्म एव महाद्रुमः प्रधानतरुर्धर्ममहाद्रुमस्तस्य । तथा च पाडेजइ वायाईहिँ जह उ अनिबद्धमूलओ रुक्खो । तह सम्मत्तविहीणो धम्मतरू नो दढो होइ ।।७६ ।। जह सो चिय दूरंगयमूलो सच्छायओ दढो होइ । तह धम्मतरू वि दढो जायइ सम्मत्तसंजुत्तो ।।७।। 'दार'ति द्वारमिव द्वारं-मुखं प्रतोलीति यावत् । 'सुपायारमहापुरस्स'त्तिं सुष्टु-शोभन: प्राकार:=शालो यत्र तत् सुप्राकारम्, महच्च तद्-बृहत्, पुरं च-नगरं महापुरम्, सुप्राकारं च तन्महापुरं च सुप्राकारमहापुर-मतस्तस्य । तथा हि जह दाररहियणयरं ण किंचि णयरप्पओयणं कुणइ । सम्मत्तदारवियलं तह धम्मउरं पि विण्णेयं ।।७८।। तथा 'पासायपीढं व दढावगाढंति प्रसीदन्ति नयन-मनांसि यत्रासौ प्रासादः देवकुलम्, तस्य पीठं गर्तापूरकः, दृढम् अत्यर्थमवगाढम् आजलान्तभूतलावमग्नम्, तदिव । तथा हि आनीरान्तमहीतलगतगर्तापूरको दृढो यद्वत् । प्रासादो धर्मोऽपि च तद्वत् सम्यक्त्वसंयुक्तः ।।७९।। तथा 'आहारभूयं धरणी व लोए' ति आधार:=आश्रयस्तद्भूतं तत्तुल्यम्, धरणिरिव-भूमिवत्। कस्य ? षष्ठ्यर्थे सप्तम्याः प्रयुक्तत्वाद् लोके-लोकस्य जगतः । तथा हि जह पुहईतलमेयं समत्थलोयस्स होइ आहारो । तह सम्मदंसणं पि य आहारो होइ धम्मस्स ।।८।। तथा ‘पहाणदव्वाण य भायणं व' त्ति प्रधानानि प्रवराणि, तानि च तानि द्रव्याणि च क्षीरादीनि अतस्तेषाम् । चकार: समुच्चये । भाजनं कुण्डादि तद्वत्-तदिव । तथा च कुण्डादिभाजनविशेषविवर्जितस्तु, निःशेषवस्तुनिचयो व्रजति प्रणाशम् । यद्वत् तथा विविधर्मविशेषराशि:, सद्दर्शनप्रवरभाजनविप्रहीण: ।।८१।। तथा 'माणिक्क-णाणामणिमाइ- मुत्ता-सिल-प्पवाला-ऽमललोहियक्ख-सुवण्णपुण्णं व १. ला० 'तो ॥ इति भावना । 'दारं' ति॥ २. सं० वा० सु० मनांसीति प्रासा' ॥ ३. सं० वा. सु० प्रस्तुतत्वाद् ॥ ४. ला० नि चैतानि ॥ ५. सं० वा० सु० 'मुत्त-सि ॥ ६. ला. यखा-सु ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy