SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वमाहात्म्यादि १०१ इत्यादि जीवास्तित्वमननं प्रथमं सम्यक्त्वस्थानकम्, अवस्थानमिति भावः । अनेनं नास्तिकमतनिषेधमाह । ' णिच्चो' त्ति, 'नित्यः' अप्रच्युता - ऽनुत्पन्न- स्थिरै केत्वभावः पूर्वकृतस्मरणात्। अनेन च बौद्धमतनिरासाद् द्वितीयं सम्यक्त्वस्थानकमभिहितम् । 'कुणइ’त्ति, ‘करोति’ विदधाति शुभा- ऽशुभानीति सम्बध्यते, एवमेव युक्तियुक्तत्वाद्, अन्यकर्तृकत्वे तु कृ तनाशा-ऽकृ ताभ्यागमादिदोषप्रसङ्गाद् । अनेन तु कपिलमततिरस्करणात्, तृतीयं दर्शनस्थानकमुक्तम् । ‘कयाई सयाई वेएइ सुहा - ऽसुहाई' त्ति ' कृतानि' निर्वर्तितानि । 'स्वकानि' आत्मीयानि । 'वेदयति' अनुभवति । जीव इति गम्यते । 'शुभा - शुभानि' पुण्य-पापानि, 'सुखाsसुखानि' वा पुण्य-पाप- फलजन्यशर्मा - शर्माणि । एतच्चाकर्ता जीव इति दुर्णयनिरासात् चतुर्थं सम्यक्त्वस्थानकम्। ‘निव्वाणमत्थि' त्ति, 'निर्वाणं' मोक्षः सकलकर्मनिर्मुक्तजीवावस्थानमिति भावः । 'अत्थि' त्ति, 'अस्ति' विद्यते तत्प्रतिपादकागम प्रमाणसद्भावात् । अनेन च, दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चिदथ क्षयात् केवलमेति शान्तिम् । ।७४।। जीवस्तथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, क्लेशक्षयात् केवलमेति शान्तिम् ।। ७५ ।। इति सर्वाभावप्रतिपादकमोक्षपरदुर्णयनिरासः कृतो भवतीति पञ्चमं दर्शनस्थानम् । 'ह तस्सुवाओ 'ति तथा तस्योपायः, तस्य = मोक्षस्योपायः = तत्प्राप्तिलक्षणः सम्यग्दर्शनादिकः सन्मार्ग इति भावः, “सम्यग्दर्शनज्ञान - चारित्राणि मोक्षमार्ग: (तत्त्वा० अ० १ सू० १) " इति वचनात् । अनेन च मोक्षोपायाभावप्रतिपादकदुर्णयनिरासः कृतो भव [ ? ती] ति षष्ठं सम्यक्त्वस्थानकम् । ‘सम्मत्तठाणाइं’ति सम्यक्त्वस्थानानि=दर्शनावस्थानानि, सम्यक्त्वमेतेषु सत्स्वेव भवतीति भावः । 'जिणाहियाई' ति जिनाहितानि तीर्थकरप्रतिपादितानीति वृत्तार्थः ।। १३ ।। भूषणादीनि प्रतिपाद्य तस्यैव माहात्म्यख्यापकं वृत्तद्वयमाह मूलं इमं धम्ममहादुमस्स, दारं सुपायारमहापुरस्स । पासायपीढं व दढावगाढं, आहारभूयं धरणी व लोए ।।१४।। पहाणदव्वाण य भायणं व, माणिक्क - णाणामणिमाइ - मुत्ता- । सिल-प्पवाला-ऽमललोहियक्ख-सुवण्णपुण्णं व महाणिहाणं ।।१५।। १. ला० न च नास्ति ॥ २. सं० वा० सु० 'कस्वभावः ॥ ३. सं० वा० सु० 'नमभि ॥ ४. सं० वा० सु० 'दक आग° ॥ ५,६ ला० 'वनीं ७. ला० °ख्यापनं ॥ ८. ला० धरणीं व ॥ ९. ला० मुत्त - सि । ता० पु० मोत्ता - सि ॥ १०. सं० वा० सु० खा ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy