SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सविवरणे मूलशुद्धि प्रकरणे 'जीवाइवत्थूपरमत्थसंथवो'त्ति जीवनात् प्राणधारणाजीवा: पृथिव्यप्-तेजो-वायु-वनस्पतिद्वि-त्रि-चतुः-पञ्चेन्द्रिया-ऽनिन्द्रियभेदाद् दशधा, ते आदिर्येषामजीव-पुण्य-पापा-ऽऽश्रव-संवरनिर्जरा-बन्ध-मोक्षाणां तानि जीवादीनि, तानि च तानि वस्तूनि पदार्था जीवादिवस्तूनि । तेषां परमार्थेन-वस्तुवृत्त्या, संस्तव: परिचयः, परमार्थसंस्तवः तत्त्वपरिज्ञानम् । तेन च सम्यक्त्वं श्रद्धीयते। यत: परमत्थेणं जीवाइवत्थुतत्तत्थवित्थरविहन्नू । जो तम्मि सद्दहेजइ जीवो णियमेण सम्मत्तं ।।६३।। अतस्तच्छ्रद्धानं भण्यते । अत्र च कौतुकादिना मिथ्यादृष्टयोऽपि जीवादिवस्तुपरिचयं कुर्वन्ति तन्निराकरणार्थं परमार्थविशेषणोपादानम् । इत्याद्यं श्रद्धानं ।। 'सुदिट्ठभावाण जईण सेवा'त्ति सुष्ठ अतिशयेन यथाववृत्त्या, दृष्टाः अवलोकिता:, भावा:=पदार्था यैस्ते, तथा यतयः-साधवः, तेषाम् । 'सेवना' पर्युपासना । सा श्रद्धानं भवति, यतस्तयापि सम्यक्त्वं श्रद्धीयत इति । अत्र च सम्यगविज्ञातपदार्थयतिनिषेधार्थं सुदृष्टभावविशेषणम्, यस्मादगीतार्थयतिपर्युपासनातो न केवलं सम्यग्दर्शनं न श्रद्धीयते किन्तु तद्देशनाश्रवणत उभयोरप्यनर्थः। यत उक्तम् किं एत्तो कट्ठयरं मूढो अणहिगयधम्मसम्भावो । अण्णं कुदेसणाए कट्ठतरागम्मि पाडेइ ॥६४॥ (पञ्चव० गा० १६०३) तथा यद्भाषितं मुनीन्द्रैः पापं खलु देशनापरस्थाने । उन्मार्गनयनमेतद् भवगहने दारुणविपाकम् ।।५।। किञ्चाऽगीतार्थस्य देशनैव न युक्ता । उक्तं च सावज-ऽणवजाणं वयणाणं जो ण याणइ विसेसं । वोत्तुं पि तस्स ण खमं, किमंग उण देसणं काउं ? ।।६६।। भवसयसहस्समहणो विबोहगो भवियपुंडरीयाणं । धम्मो जिणपण्णत्तो पकप्पजइणा कहेयव्वो ।।६७।। इति द्वितीयं श्रद्धानम् । १. सं० वा० सु० सेवणं ति ॥ २. सं० वा० सु० प्रतिषु 'तथा' इति न वर्तते ॥ ३. ला० जाणइ ।।
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy