SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वस्य लिङ्गानी श्रद्धानानि च क्षान्तिरेव जगत्पूज्या क्षान्तिः परममङ्गलम् । शान्तिरेवौषधं चारु सर्वव्याधिनिबर्हणम् । ५७। क्षान्तिरेवारिनिर्णाशं चतुरङ्गं महाबलम् । किं चात्र बहुनोक्तेन सर्वंक्षान्तौ प्रतिष्ठितम् ।।५८।। इति प्रथमं लिङ्गम् । ‘संवेग'त्ति ‘संवेगः' मोक्षाभिलाष: । उक्तं च णर-विबुहेसरसोक्खं दुक्खं विय भावओ उ मण्णंतो । संवेगओ ण मोक्खं मोत्तूणं किंचि पत्थेइ ।।५९।। (धर्म० गा० ८०९) इति द्वितीयं लिङ्गम् । 'निव्वेय' त्ति 'निर्वेदः' संसारोद्वेगः । उक्तं च णारय-तिरिय-णरा-ऽमरभवेसु णिव्वेयओ वसइ दुक्खं । अकयपरलोगमग्गो ममत्तविसवेगरहिओ वि ।।६०।। (धर्म० गा० ८१०) कथम्भूतः सन् दुःखं वसति ? 'अकृतपरलोकमार्ग:' अनासेवितसदनुष्ठान इत्यर्थः । 'ममत्वविषवेगरहितोऽपि' प्रकृत्या निर्ममत्व एव, विदिततत्त्वत्वाद् । इति तृतीयं लिङ्गम् । 'अणुकंपत्ति, ‘अनुकम्पा' दुःखितप्राणिदया । उक्तं च दट्टण पाणिणिवहं भीमे भवसागरम्मि दुक्खत्तं । अविसेसओऽणुकंपं दुहा वि सामत्थओ कुणइ ।।६१।। (धर्म० गा० ८११) 'अविशेषत:' आत्मीयेतरविचाराभावेन । 'द्विधापि' द्रव्यतो भावतश्च, द्रव्यत: प्राशुकपिण्डादिदानेन, भावत: सद्धर्मयोजनया । इति चतुर्थं लिङ्गम् । 'अत्थित्तभावेणं'ति, ‘अस्तित्वभावेन' जीवादिपदार्थविद्यमानतापरिणामेन । उक्तं चमण्णइ तमेव सच्चं णिस्संकं जं जिणेहिं पण्णत्तं । सुहपरिणामो सव्वं कंखाइविसोत्तियारहिओ ।।६२।। (धर्म० गा० ८१२) 'समं'ति सह । इति पञ्चमं लिङ्गम् । 'जिणिंद'त्ति, 'जिनेन्द्राः' तीर्थकृतः । 'सम्मत्तलिंगाणि'त्ति, 'सम्यक्त्वलिङ्गानि' सम्यग्दर्शनचिह्नानि । 'उदाहरंति' त्ति, ‘उदाहरन्ति' कथयन्तीति वृत्तार्थः ।।१०।। . . ---...... उक्तं मूलद्वारवृत्ते लिङ्गद्वारम् । साम्प्रतं श्रद्धानद्वारप्रतिपादनाय वृत्तमाहजीवाइवत्थूपरमत्थसंथवो, सुदिट्ठभावाण जईण सेवणा। दूरेण वावण्ण-कुदिट्ठिवजणा, चउव्विहं सद्दहणं इमं भवे ।।११।। १. सं० वा० सु० प्रथमलि' ॥ २. सं० वा० सु० द्वितीयलि' ॥ ३. सप्तमवृत्ते ॥ ४. ला० "नप्रति ॥ ५. सं० वा० सु० सेवणं ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy