________________
सविवरणे मूलशुद्धि प्रकरणे
जंपइ य लोयपुरओ एसो जिणइंददेसिओ धम्मो । संसारोत्तरणसहो अवंझबीयं सिवतरुस्स ।।२२।। ताभो ! करेह जत्तं, इत्थेव य, किं व बहुपलत्तेण?' । तत्तो बहुलोगेहिं पडिवणं जिणमयं तइया ।२३। एवं च वण्णवायं काऊणं सासणस्स सो तियसो । उप्पइय णहयलेणं पत्तो तियसालयं झत्ति ।।२४।। तम्हा आईओ च्चिय ण कायव्वो परपासंडसंथवो इति ।।
[जिनदासकथानकं समाप्तम् । ११] गतं पञ्चमं दूषणम् । एतानि च दर्शनं दूषयन्ति । यत आह दूसंति सम्मत्तमिमे हु दोस' त्ति सूत्रावयवः । ‘दूषयन्ति' मलिनीकुर्वन्ति सम्यक्त्वम् । एते' पूर्वोक्ता: । 'हुः' पूरणे । 'दोषा:' दूषणानीति वृत्तार्थः ।।९।। उक्तं मूलद्वारवृत्ते दूषणद्वारम् । सम्प्रति लिङ्गद्वारोपदर्शनार्थं वृत्तमाह
सुहावहा कम्मखएण खंती, संवेग णिव्वेय तहाऽणुकंपा ।
अत्थित्तभावेण समं जिणिंदा, सम्मत्तलिंगाइमुदाहरंति ।।१०॥ 'सुहावहा कम्मखएण खंति' त्ति 'सुखावहा' शर्मोत्पादिका, ‘कर्मक्षयेण' तदावरणविनाशेन, 'क्षान्ति:' उपशमरूपा, सम्यक्त्वलिङ्गं भवति । उक्तं च
पयईए णाऊणं कम्माणं वा विवागमसुहं ति ।
अवरद्धे वि ण कुप्पइ उवसमओ सव्वकालं पि ॥५०॥ 'प्रकृत्या' सम्यक्त्वाणुवेदकजीवस्वभावेन । 'कर्मणां' कषायनिबन्धनानाम् । अशुभविपाकं यथा-कषायाविष्टोऽन्तर्मुहूर्तेन यत् कर्म बध्नाति तदनेकाभि: सागरोपमकोटीकोटीभिर्दुःखेन वेदयतीत्येवं ज्ञात्वा । अत्र च सुखावहत्वविशेषणं क्षान्तेनि:शेषगुणत्नाधारत्वोपलक्षणार्थमुक्तम् । उक्तं चक्षान्तिरेव महादानं क्षान्तिरेव महातप: । क्षान्तिरेव महाज्ञानं क्षान्तिरेव महादमः ।।५१।। क्षान्तिरेव महाशीलं क्षान्तिरेव महाकुलम् । क्षान्तिरेव महावीर्यं क्षान्तिरेव पराक्रमः ।।५२।। क्षान्तिरेव च सन्तोषः क्षान्तिरिन्द्रियनिग्रहः । शान्तिरेव महाशौचं क्षान्तिरेव महादया ।।५३।। क्षान्तिरेव महारूपं शान्तिरेव महाबलम् । शान्तिरेव महैश्वर्यं धैर्य क्षान्तिरुदाहृता ।।५४।। शान्तिरेव परं ब्रह्म सत्यं क्षान्तिः प्रकीर्तिता ।क्षान्तिरेवपरामुक्तिःक्षान्तिः सर्वार्थसाधिका।५५ शान्तिरेव जगद्वन्द्या क्षान्तिरेव जगद्धिता। क्षान्तिरेव जगज्ज्येष्ठा शान्तिः कल्याणदायिका ५६
१. ला० 'गेणं ॥ २. मुपा० त्ति ॥२४॥ ता केत्तिया एवंविहा सूरिणो भविस्संति जे एवं पडिबोहिस्संति । तम्हा आईओ॥ ३. सप्तमवृत्ते ॥ ४. ता० गाणि मुदा ॥ ५. ला० गुणाधार ॥