________________
विषयनिग्रहद्वारम्
[१३०] आपातरम्ये परिणामदुःखे,
सुखे कथं वैषयिके रतोऽसि ? | जडोऽपि कार्यं रचयन् हितार्थी,
करोति विद्वन् ! यदुदर्कतर्कम् ||६.२।। धनवि.-नन्वमृतलवकल्पमपि वैषयिकं सुखमनन्तरोक्तोपदेशानुसारेण कथं हेयम? इत्याशङ्कायामुपदिशति -
'आपातरम्ये' इति-हे विद्वन् ! आपातरम्ये-दर्शनमात्ररमणीये परिणामदुःखेपरिणत्या दुःखदायके वैषयिके-विषयजनिते सुखे कथं-केन प्रकारेण त्वं रत:आसक्तः, असि ?, यद्-यस्मात् कारणात् जडोऽपि-मूर्योऽपि हितं-सुखोपायः, तस्यार्थ:-प्रयोजनं यस्य स हितार्थी सन कार्य-व्यापारादिकं घटादिकं वा रचयन्-कुर्वन् घटयन् उदर्कतर्कं 'उदर्कस्तद्भवं फलं'इति [ ] वचनादुदर्क:कार्यकरणोत्तरकाले तत्कार्यजन्यफलं, तस्य तर्क-'एतत् कार्यकरणात् ममोत्तरकाले किं फलं भविष्यति इति विचारः, तं करोति-विदधातीत्यर्थः, भावार्थस्तु मूर्योऽपि कार्यं कुर्वन् चेतसा चिन्तयति-इदं मया क्रियमाणं कार्यमग्रे सुन्दरपरिणाममसुन्दरपरिणामं वेति, त्वं तु पण्डितः सन् भुक्तिकालसुन्दरे परिणतिकालासुन्दरे किंपाकफलोपमे वैषयिके सुखे कथं रतोऽसि-इति ? ||६.२।।
रत्न.-अथैहिकसुखस्याऽऽपातरम्यत्व-परिणामदुःखत्वे दर्शयन्नाह -
आपातरम्ये. इति, व्याख्या-हे विद्वन् ! - हे आत्मन् ! विषयसम्बन्धिनि वैषयिके सुखे किं रतोऽसि ? - रागी जातोऽसि, अपितु मा रज्य | किंलक्षण ? - आपातः-तत्कालस्तस्मिन् रम्ये, दृश्यमानमनोहरे इत्यर्थः, पुन किंलक्षणे ? - परिणामे-परिपाके दुःखदायि'इति दुःखं तस्मिन्, यद्-यस्मात् कारणाज्जडोऽपिमूर्योऽपि कार्यं स्वयं कुर्वन्नुत्तरकालजं फलं उदर्कः, तस्य तर्को-विचारः तं करोति, ममेदं कार्यं कुर्वतः सतोऽग्रे किं फलं भविष्यति ? इति विचारयतीत्यर्थः । विद्वन् ! इति साभिप्रायं सम्बोधनं, तेन त्वं विद्वानसि, वैषयिकं सुखं भुज्जान उदर्कतक्र्कं किं न करोषीति भावः ।।६.२।। ..