________________
८४
ननु विषयसेवने को दोष ? इत्याशङ्कायामाह
1
'अल्प' इति-हे आत्मन ! त्वं प्रचुरप्रमादः सन् - बहुप्रमादसहितः सन्, अत्यल्पकल्पितसुखाय-अतिशयेनाल्पमत्यल्पं अत्यल्पं च तत् कल्पितं च-सुखं सुखमितिबुद्ध्यारोपितं तच्च सांसारिकं स्त्रीसंभोगादिलक्षणं सुखं तत् तथा तस्मै, प्रतिपदं-स्थाने स्थाने इन्द्रियार्थैः शब्दादिविषयैः किं मुह्यसि ? किं मूढो भवसीत्यर्थः; यतः कारणाद् एते इन्द्रियार्थाः जंतून - प्राणिनो गहने - दुःखावगाये भवभीमकक्षे-संसाररूपभयङ्करकान्तारे क्षिपन्ति - बलात्कारेण प्रवेशयन्तीत्यर्थः, यत्र भवभीमकक्षे शिवमार्गदृष्टिः- मोक्षमार्गदर्शनं सुलभा - सुप्रापा न अस्तीति ।।६.१।। रत्न. - अथ षष्ठोऽधिकारो विवरीतुं प्रारभ्यते । तत्र विषयाः प्रमादाश्च, प्रथममिन्द्रियार्थेषु मोहत्यागविषये उपदिशति
तत्र
-
श्रीअध्यात्मकल्पद्रुमे
[१२९] 'पदं स्थाने विभक्त्यन्ते, शब्दे वाक्यैङ्क वस्तुनोः ।
त्राणे पादे पादचिह्ने
-
अत्यल्पकल्पितसुखाय... इति, व्याख्या- हे आत्मन् ! त्वमिन्द्रियार्थैः-शब्दरूप-गन्ध-रस-स्पर्शैः किं मुह्यसि ? काकूक्त्या व्याख्यानं, अपि तु मा मुह्य इत्युपदेशोऽपि, कस्मै ? - अत्यल्पं कल्पितम् - औपचारिकं न तु तात्त्विकं, यत् सुखम् तस्मै, कथं ? प्रतिपदं-स्थानं स्थानं प्रति अथवा वस्तु वस्तु प्रति,
[ ] इत्यनेकार्थकोष
[२.२२५-ब, २.२२६-अ] वचनात्,
किंलक्षणस्त्वं ? - प्रचुरः प्रमादो यस्य सः, एते इन्द्रियार्थाः भवः - संसारः स एव भीमो-भयावहः कक्षः - शुष्कवनं, तस्मिन् क्षिपन्ति । किंलक्षणे ? गहने दुष्प्रवेशार्हे । कान् ? जन्तून् प्राणिनः कुत्र ? - तत्र तत्रेत्यध्याहार्यं, यत्रेति पदस्य सत्त्वात्, यत्र शिवस्य - मोक्षस्य मार्गदृष्टिः- मार्गदर्शनं न सुलभा - न सुप्रापा । अपरस्मिन्नपि गहने कक्षे शिवस्य - निरुपद्रवस्य मार्गस्य दृष्टिः सुलभा न भवतीति ।।६.१।।