________________
६. विषयनिग्रहाधिकार:
[१२५] अत्यल्प-कल्पितसुखाय किमिन्द्रियार्थेस्
त्वं मुह्यसि प्रतिपदं प्रचुरप्रमादः ? | एते क्षिपन्ति गहने भवभीमकक्षे,
जंतून् न यत्र सुलभा शिवमार्गदृष्टिः ||६.१।। धनवि.-नन्वनन्तरद्वारे देहममतामोचनमुपदिष्टं, तच्च विषयनिग्रहमन्तरेण कथं स्याद् ? इत्याशङ्कायां विषयनिग्रहद्वारमभिधित्सुराह -
अथ विषयाः प्रमादाश्च - अथ विषया इति, ननु विषयसहचारिणः के निग्राह्या ? - इत्याशङ्कायामाह -
प्रमादाश्चेति, अथ विषयाः-पञ्चेन्द्रियविषयाः इष्टानिष्टशब्दादयः, च पुनः प्रमादा-मद्यादयः पञ्च, अज्ञानादयोऽष्टौ वा, निग्रहविषयीकार्याः संवलिताः प्रतिपाद्यन्ते इति, अत्र प्रमादस्य पञ्चप्रकारता - [१२६] "मज्जं विसय कसाया, निद्दा विकहा य पंचमी भणिया ।
___ एए पंच पमाया जीवं पाडंति संसारे ।।[ ]||" इत्यादिना भावनीया, अष्टप्रकारता च - [१२७] "पमाओ य मुणिंदेहिं, भणिओ अट्ठभेयओ ।
अन्नाणं संसओ चेव, मिच्छानाणं तहेव य ।।[ ]।। [१२८] रागो दोसो मइब्भंसो, धम्मम्मि य अणायरो । जोगाणं दुप्पणिहाणं, अट्ठहा वज्जियव्वओ" [[[ ]।।
इत्यादिना भावनीया ।।
१. 'मिलिताः' इति प्रतौ टीप्पणी ।