________________
८६
श्रीअध्यात्मकल्पद्रुमे
[१३१] यदिन्द्रियार्थैरिह शर्म बिन्दवद्, यदर्णवत् स्वः- शिवगं परत्र च । तयोर्मिथः सप्रतिपक्षता कृतिन् !, विशेषदृष्ट्याऽन्यतरद् गृहाण तत् ।।६.३।।
धनवि.—नन्वनन्तरोक्तप्रकारेण यदि वैषयिकसुखस्याऽऽपातरमणीयता भविष्यति, तदा सुखत्वेन समानधर्मस्य स्वर्गापवर्गसुखस्यापि तथैव रमणीयता भविष्यतिइत्याशङ्कायामुपदिशति
-
'यदिन्द्रियार्थैः' इति-इह लोके यच्छर्म-यद् वैषयिकं सुखं बिंदुवद् वर्त्तते, बिन्दुः-जलकणः, तद्वदाचरतीति बिन्दवत् इति सांसारिकशर्मविशेषणं, च पुनः परत्र-परलोके यत् स्वः-शिवगं-स्वर्गा-ऽपवर्गगतमिन्द्रियजानिन्द्रियजं शर्म अर्णवद् वर्तते, अर्णवः-समुद्रः, तद्वदाचरति, इति अर्णवदिति स्वर्गापवर्गगतशर्मविशेषणं, तयोः-सांसारिकसुख-स्वर्गापवर्गसुखयोर्मिथः परस्परं सप्रतिपक्षता- 'एकस्य सत्त्वे - ऽपरस्यासत्त्वम्'इतिरूपा वैरिताऽस्तीत्यन्वयः; हे कृतिन् ! - हे पण्डित ! त्वं विशेषदृष्ट्या इदमस्मात् समीचीनमिदमस्मादसमीचीनमिति विवेकदृशा, अन्यतरद्ऐहिक-पारलौकिकसुखयोर्मध्ये एकं यत् सुन्दरं तद् गृहाण-स्वायत्तं कुर्वित्यर्थः
।।६.३ ।।
रत्न. - अथैहिकसुखस्य तुच्छत्वेन ( त्वं ) दर्शयन्नाह -
यदिन्द्रियार्थैरिति, व्याख्या - हे आत्मन् ! इह लोके यत्, इन्द्रियार्थैः शब्दरुप-गन्ध-रस-स्पर्शैः शर्म सुखं वर्त्तते, तद् बिन्दुरिव वर्तते, च पुनर् इन्द्रियार्थेभ्यो विरत्याः करणेनेति - गम्यम्, परत्र परलोके स्वः- स्वर्गः, शिवं - मोक्षः, तयोर्गच्छतीति स्वः-शिवगं, यच्छर्म तदर्णव इव-समुद्र इवाचरतीति अर्णवति अर्णववद् वर्त्तते, आचारार्थे शतृप्रत्यये शर्मविशेषणं, तयोः शर्मणोर्मिथः - परस्परं सप्रतिपक्षता प्रतिपक्षत्वं रिपुत्वमस्ति, यदैहिकं सुखं तदा पारत्रिकं न, यदा पारत्रिकं तदा चैहिकं नेति १. 'अत्र विग्रहस्पष्टतायै'- 'बिन्दवति, बिन्दवति इति बिन्दवत्' एतत् पदकदम्बकम् उपादेयम्-तथा 'अर्णवति इति अर्णवद्' इत्यपि ज्ञेयम्० सं. ।