________________
८०
[१२३] परोपकारोऽस्ति तपो जपो वा, विनश्वराद् यस्य फलं न देहात् । स भाटकादल्पदिनाप्तगेह-मृत्, पिण्डमूढः फलमश्नुते किम् ? ।।५.७।।
धनवि.—नन्वनन्तरं 'स्वहितं गृहाण' इत्युक्तम्, अथ च यः शरीरं प्राप्य स्वहितं न गृह्णाति, तस्य किं स्याद् ? इत्याशङ्कायामुपदिशति
श्रीअध्यात्मकल्पद्रु
‘परोपकार’ इति-यस्य पुरुषस्य विनश्वराद् - विनाशस्वभावाद् देहात्-शरीरात् परोपकारः-परहितकरणं, वाऽथवा तपो द्वादशप्रकारं वाऽथवा जपःपञ्चपरमेष्ठिनमस्कारादिस्मरणं फलं- साध्यार्थो नास्ति स पुरुषो भाटकात्निष्क्रयाद् अल्पदिनावधिप्राप्तश्चासौ गेहमेव गृहमेव मृत्पिंडो- मृत्तिकास्कन्धस्तत्र मूढो - ममेदं गृहं मा विनश्यत्वितिधिया मोहं प्राप्तः, किं फलं ? - किंनामकं फलमश्नुते-प्राप्नोतीत्यर्थः, भावार्थस्तु यथा कश्चिदल्पदिनमर्यादया भाटकेन गृहीते गृहे ममेदं गृहं मा विनश्यत्वितिबुद्ध्या मूढमतिस्तद्गृहं न व्यापारयति स संपूर्णावधौ च परकीये गृहे जाते सति तद्गृहस्य प्राप्तिफलरहितो भवति तथा यः परिमितायुषि शरीरे प्राप्ते ममेदं शरीरं परोपकार - तपःकरणादिना दुर्बलं माऽस्त्वितिबुद्ध्या मूढमतिस्तं शरीरं न व्यापारयति सोऽप्यायुःपूर्त्ती शरीरनाशे मानुष्यशरीरप्राप्तिफलरहितो भवतीति ।।५.७ ।।
रत्न.—अथ देहात् तपो - जपादिफलमाह
-
1
'परोपकरोऽस्ति' इति, व्याख्या -यस्य पुंसो देहात् परोपकारः फलं नास्ति वा पुनस्तपः फलं जपश्च फलं नास्ति, देहस्य त्रीण्येव फलानि सन्तीति सूचितम्, यतः किलक्षणात् ? विनश्वराद्-विनाशशीलात्, स पुमान् देहात् किं फलमश्नुते ?, अपि तु न किमपि । स किंलक्षणात् ? भाटकाद्भाटकोक्तद्रव्यप्रदानादल्पदिनान् यावदाप्तं गेहं, तदेव मृत्पिण्डः-शरीरं तत्र
१. 'मूले' दिनाप्त' पदमस्ति, अतः विग्रहे 'दिनैराप्त' इति कर्त्तव्यम् ।
-