________________
देहममतामोचनद्वारम्
८१
मूढो - मोहग्रस्तः, भाटकगृहं यथा यथा व्यापार्यते तथैव भव्यं, अन्यथा भाटकद्रव्यमुपविशति अर्थः कश्चिन्न सिद्ध्यतीति । देहस्या - ऽशन-पान - वस्त्रादिदानं भाटकं, तस्य परोपकारादि फलं न गृह्यते तदा वृथैव भाटकदानमिति दृष्टान्तसाम्यं, गेहमपि मृत्पिण्डमयं भवतीति ।।५.७ ।।
[१२४] मृत्पिण्डरूपेण विनश्वरेण, जुगुप्सनीयेन गदा - Sऽलयेन । देहेन चेदात्महितं सुसाधं,
धर्मान्न किं तद् यतसेऽत्र ? मूढ ! ।।५.८ ।।
धनवि.—अथ देहममतामोचनद्वांरोपसंहाराय देहस्यासारतां देहजन्यसुकृताचरणफलस्य च सारतां दर्शयन्नुपदिशति
-
'मृत्पिण्ड' इति - हे अज्ञानिन ! चेद्यदि मृत्पिण्डरूपेण मृत्तिकास्कन्धस्वभावेन विनश्वरेण-विनाशशीलेन जुगुप्सनीयेन- अतिनिन्दास्पदेन गदालयेन-रोगगृहेण देहेन - शरीरेण कारणभूतेन, आत्महितं स्वस्य पारभविकसुखसाधनं सुसाधं-सुखसाध्यं धर्मात्-तपश्चरण-संयमपालनलक्षणाद् भवति, तत् - तदाऽत्र - धर्मे किं न यतसे ? किं नोद्यमं कुरुषे इति ।। ५.८ ।।
—
इति श्रीतपोगच्छनायक श्रीमुनिसुन्दरसूरिनिर्मितस्य षोडशशाखस्याध्यात्मकल्पद्रुमस्य महोपाध्यायश्रीकल्याणविजयगणिशिष्योपाध्यायश्रीधनविजयगणिविरचितायां देहममतामोचननाम्नी पञ्चमी पदपद्धतिः ।।५।।
—
रत्न. - पुनस्तदेव द्रढयति
'मृत्पिण्डरूपेण' इति, व्याख्या- हे आत्मन् ! चेद् - यदि देहेन निमित्तभूतेन धर्मात्-सुखकारणाद् आत्महितं सुसाधं-सुखसाध्यं वर्त्तते, देहेन कीदृशेन ? मृत्पिण्डरूपेण-मृत्पिण्डसदृशेन, अत एव विनाशशीलेन, पुनः किंलक्षणेन ? जुगुप्सनीयेन-जुगुप्सायोग्येन, पुनः किंलक्षणेन ? - गदानां - रोगाणामालयो-गृहं तेन, तत्-तर्हि अत्र-आत्महिते हे मूढ ! किं न यतसे ? यत्नं न करोषि ?
-