________________
देहममतामोचनद्वारम्
[ १२२] यतः शुचीन्यप्यशुचीभवन्ति,
-
कृम्याकुलात् काक-शुनादिभक्ष्यात् । द्राग्भाविनो भस्मतया ततो ऽऽङ्गान्मांसादिपिण्डात् स्वहितं गृहाण ।।५.६ ।।
धनवि . -अथ शरीरस्यासारतां दर्शयन्नुपदिशति
‘यतः’ इति-यतः शरीराद् - आहाराऽशुकादीनि वस्तूनि शुचीन्यपि - पवित्राण्यपि, अशुची-भवन्ति-अपवित्रीभवन्ति सजीवनावस्थायां, कृम्याकुलात्- कृमिगण्डोलकसंकुलात् निर्जीवनावस्थायां च काक-शुनादिभक्ष्याद् - वायस - सारमेयादिभिर्भक्ष्याद्-भक्षणीयाद्, आदिपदात् कङ्क-गृध्रादिभक्ष्याद् द्राग्- शीघ्रं भस्मतया - रेक्षारूपतया भाविनोभविष्यतो मांसादिपिण्डाद्, आदिपदाद् रस-ऽसृग्-मांस-मेदादिपिण्डसमूहात् ततोऽङ्गात्-तस्माच्छरीरात् स्वहितं - परभवसुखसाधनं तपःसंयमादि पुण्यं गृहाण - स्वायत्तीकुर्वित्यर्थः ।।५.६।।
रत्न. - अथाशुचिदेहादन्येऽपि पदार्था अशुचीभवन्ति इत्यादिदेहदोषानाह
यतः शुचीन्यप्यशुचीभवन्ति इति, व्याख्या यतः अङ्गात् शुचीनि पवित्राण्यपि वस्तूनि-पायसादीनि अशुचीभवन्ति - अपवित्राणि भवन्ति, यथा घृतशर्कराचूर्णयुक्तस्य भक्षितस्य पायसस्य तत्समय एव वमनदशायां दूरूप- दुर्गन्धितया सर्वजन - जुगुप्सनीयत्वेन त्याज्यत्वं दृश्यत इति । यतः किम्भूतात् ? - कृमिभिराकुलाद्व्याप्तात्, पुनः किंलक्षणात् ? - काक-शुनादीनां भक्ष्याते, पुनः किं लक्षणात ? भवितेति भावि, तस्माद् भाविनः, कया द्राक्, मृतानन्तरमित्यर्थः । हे आत्मन् स्वस्य हितं तपःप्रभृति गृहाण, किं. ? आदिशब्देना- -ऽस्र-वसा-S - ऽस्थि- मेदसां ग्रहणम् ।।५.६ ।।
भस्मतया - रक्षात्वेन, कथं ?
-
-
७९
-
१. 'राजरूपे' सं. । २. ०त्, शोषे भक्ष्यं न स्यात्, पुनः- मु० ।
?
! ततोऽङ्गात् तस्माच्छरीरात् त्वं
मांसादीना पिण्डः-समुदायस्तस्माद्,
-