________________
७६
श्रीअध्यात्मकल्पद्रुमे किम ? - किं न कुरुषे, हि यस्मात् कारणात् इदं वपुर्दुःखभीतेः दुःखानां भयाद् रक्षितुं रक्षणाय न शक्यं-न शकनीयं इति न, 'द्वौ नौ प्रकृतमर्थं गमयत' इति न्यायादपितु शक्यम्, अर्थात् पुण्येनैवेति, च पुनरिदं वपुर्वज्रिणोऽपि इन्द्रस्यापि पुण्यं विना क्षयं-नाशमुपैति-प्राप्नोति । तस्माद् त्वं यदि परलोकदुःखभीतस्तदा पुण्यं कुरुष्वेत्युपदेशः ।।५.३।। [१२०] देहे विमुह्य कुरुषे किमघं ? न वेत्सि,
देहस्थ एव भजसे भवदुःखजालम् । लोहाश्रितो हि सहते घनघातमग्निर्
बाधा न तेऽस्य च नभोवदनाश्रयत्वे ।।५.४।। धनवि.-अनन्तरोक्तयुक्त्या परलोकदुःखभीत्या शरीरयत्नो माऽस्तु, परं शरीरपोषणादिना सुखं तु भवत्येवेति शरीरयत्नो विधीयते इत्याशयानां पुंसामुपदेशमुपदिशति - _ 'देहे' इति-हे आत्मन् ! देहे-शरीरे विमुह्य-विशेषेण मोहं प्राप्या-ऽघं-पापं किं कुरुषे ?, इति-अग्रे वक्ष्यमाणं स्वरूपं किं न वेत्सि ? . न जानासीत्यर्थः, देहस्थ एव-शरीरे स्थित एव त्वं भवदुःखजालं-सांसारिकदुःखसमूहं भजसेप्राप्नोषीत्यर्थः, हि यतः कारणात्, लोहाश्रितो-लोहसंश्रितोऽग्निः-वनिर्घनघातंलोहमयघनप्रहारं सहते-क्षमते, गगनवद् अनाश्रयत्वे-निरालम्बनत्वे ते-तव च पुनरस्य-वह्नर्बाधा-पीडा न भवतीति, नभसो वति प्रत्यये 'मनुर्नभोऽ-गिरो वति' इति [सि.हे. १-१-२४] सूत्रेण पदत्वाभावात्' नभोवद्' इति चिन्त्यम्, अन्यथा वा यथाज्ञातं समर्थनीयमिति, स्थानाङ्गटीकायां प्रथमाधिकारे नभोवदिति प्रयोगस्य विद्यमानत्वात् सुस्थमिति वा [नभस्वदित्युपदेश-रत्नाकरे, न वदन्तं नामेदं, अव्ययमिदं वेदिक्यां च सूत्रमिदं, अग्नेः सम्बन्ध्यपि नभस्वान्-वायुः अनाश्रयत्वात् न घातमाप्नोतीत्यर्थे तु नभस्वदित्येव] ।।५.४ ।।
१. 'शरीरस्थित०' मु० । २. [
] अन्तर्गतः पाठः मुद्रिते टीप्पणी ।