SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७७ देहममतामोचनद्वारम् _ रत्न.-अथ यं देहं त्वं पुष्णासि, तत्रस्थस्यैव तव दुःखं वर्तत इति वक्तुमाह - 'देहे विमुह्य' इति, व्याख्या-हे आत्मन् ! त्वं देहे विमुह्य -मोहं प्राप्य किमघं कुरुषे ?। अपि तु मा कुर्वित्युपदेशः । त्वं किं न वेत्सि ? इति काकूक्त्या व्याख्यानम्, अपि तु वेत्सि-जानीषे इति सूचाऽपि, किं न वेत्सीत्याह त्वं देहस्थ एव भवस्य-संसारस्य जन्म-जरा-मरणलक्षणस्य दुःखानां जालं-समूहं भजसे, देहाश्रितस्यैव नरकदुःखाद्यनुभवनं, न तु देहमुक्तस्य, एतद् दृष्टान्तेन द्रढ्यति-हि निश्चितं अग्निर्लोहाश्रितो घनस्य-लोहमयशस्रविशेषस्य घातं-प्रहारं सहते क्षमते, नाग्निः केवलो घनघातविषयीकर्तुं शक्यत इत्यर्थः । हे आत्मन! ते-तव च पुनरस्य-अग्नेरनाश्रयत्वे बाधा-पीडा न भवति, किंवत? - नभस्वद्आकाशवद्, यथा नभसः अनाश्रयत्वे लत्ताप्रहारादिका परकृता बाधा न भवति तथा तवापि देहस्यानाश्रयत्वे मुक्तिं गतस्य बाधा न भवतीत्यर्थः । 'मनुर्नभोऽङगिरो वति' [सि.हे. १-१-२४] इति सूत्रेण पदत्वाभावात्, नभोवदिति न स्यात | यथा आकाशस्यानाश्रयत्वे बाधा न भवति तथा तवापीत्यर्थः।।५.४ ।। [१२१] दुष्टः कर्मविपाकभूपतिवशः कायाह्वयः कर्मकृद्, बद्ध्वा कर्मगुणैर्हषीकचषकैः पीतप्रमादासवम् । कृत्वा नारकचारकापदुचितं त्वां प्राप्य चाशु च्छलं, गन्तेति स्वहिताय संयमभरं तं वाहयाल्पं ददत् ।।५.५।। धनवि.-अथ शरीरस्य वञ्चकस्वभावत्वेन दुष्टतां दर्शयन्नुपदिशति - 'दुष्ट' इति-कर्मणामष्टविधानां नामकर्मणो वा विपाकः स एव भूपतिः तस्य वश-आयत्तः दुष्ट:-अपावित्र्यादिदोषदूषितः आहाराद्यर्थं हिंसाकारित्वादिदोषदूषितो वा कायाह्वयः कर्मकृद्-दासः, त्वां कर्मगुणैः-कर्मलक्षणरज्जुभिर्बद्ध्वा-नियन्त्र्य, च पुनस्त्वां हृषीकचषकैः-हृषीकाणि-इन्द्रियाणि तद्रूपाश्चषकाः-मद्यपानपात्राणि तैर्हषीकषकैः पीत:-अत्यादरेण सेवितः प्रमादः-पञ्चप्रमादलक्षण आसवो-मद्यं येन
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy