________________
देहममतामोचनद्वारम् यस्मिन् तस्माद्, आदिशब्देन क्षुत्-तृड्दुःखग्रहणम्, ततः कारागृहादधिकतरे वपुषि-शरीरे स्वस्य कर्मणो व्रातेन-समूहेन क्षिप्तः सन्, तद् वपुः प्रति द्रढयितुंदृढं कर्तुं किं यतसे ? - किं यत्नं करोषि, अत्रापि काकूक्त्या व्याख्यानं, अपि तु मा यतस्वेत्युपदेशोऽपि, ततोऽधिकरत्वं चास्य जीवनावधि सभावाद् भवे भवे प्राप्यत्वाच्चेति ।।५.२।।
[११९] चेद् वाञ्छसीदमवितुं परलोकदुःख
भीत्या ततो न कुरुषे किमु पुण्यमेव ? शक्यं न रक्षितुमिदं, हि न दुःखभीतिः,
पुण्यं विना क्षयमुपैति न वज्रिणोऽपि ||५.३।। धनवि.-विद्यमानशरीरापगमे परलोके दुःखं भविष्यतीति पुष्टि-दार्यकरणादिना एतच्छरीरयत्नो विधीयते इत्याशयानां संशयनिरासायोपदिशति -
'चेद् वाञ्छसीदम्'-इति-हे आत्मन् ! चेद्-यदि त्वं परलोकदुःखभीत्याशरीरममतामोचने एतच्छरीरापगमे च परलोके गतस्य मम दुःखं भविष्यतिइतिभयेनेदं शरीरमवितुं-रक्षितुं वाञ्छसि, ततः परलोकदुःखभीत्या पुण्यमेवसुकृतमेव शरीररक्षणादियत्नत्यागेन किमु नो कुरुषे ? - किं न करोषीत्यन्वयः, हि यतः कारणात्, इदं शरीरमलिशक्तिमता केनापि रक्षितुं-त्रातुं न शक्यं-नशक्तिविषयीकार्यं भवतीत्यर्थः, दुःखभीतिश्च-परभवदुःखभयं, पुण्यं विनातथाविधसुकृतमन्तरेण क्षयं-विनाशं वज्रिणोऽपि-इन्द्रस्यापि नोपैति-न गच्छतीत्यर्थः ||५.३।।
· रत्न.-अथ वपुषि पुष्टीकृते सति बहुजीवनात् परलोकदुःखं नायातीति 'वरं वपुपोष' [ ] इति कश्चिद् वक्ष्यतीत्याशङ्क्याह -
'चेद् वाञ्छसीदमवितुम्' इति, व्याख्या-हे आत्मन् ! त्वं चेद्-यदि परलोकदुःखानां भीत्या-भयेनेदं वपुः प्रति अवितुं-रक्षितुं वाञ्छसि, पुष्टीकृते वपुषि बहुवर्षजीवनात् परलोकदुःखानि नायान्तीति वरं पुष्टीकृतं वपुरित्यर्थः, ततस्तर्हि पुण्यमेव