SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीअध्यात्मकल्पद्रु पापानि प्रति देहं पुष्णन् पापानि चिन्तयस्येव नेत्यर्थः, परमयं देहः पोषितः सन् तव कमुपकारं विधास्यति - करिष्यति ?, त्वं जीवोपघातलक्षणानि पापानि अतिसावद्यानि कर्माणि प्रति कुर्वन् सन् इति आयतिं - उत्तरकालं विचिन्तयविचारय, हि-निश्चितमयं देहो धूर्त्तराट् - वञ्चकानां राजा जगन्ति प्रति, 'आश्रये आश्रयिणामुपचाराद् ́ जगवासिनो जगत्, तद् वञ्चयते, तेन बहुजीवघातादिनाऽस्य पोषणं न तवायतिहिताय भावीत्यर्थः वञ्चकत्वोपचाराद् धूर्त्तराडुपमानमस्येति ।।५.१ ।। · [११८] कारागृहाद् बहुविधाशुचितादिदुःखान्निर्गतुमिच्छति जडोऽपि हि तद् विभिद्य । क्षिप्तस्ततोऽधिकतरे वपुषि स्वकर्म व्रातेन तद् द्रढयितुं यतसे ? किमात्मन् ! ।।५.२ ।। धनवि: . - अथ सावद्यौषधा - SSहारादिना देहदाकरणे दोषमुपदिशति - 'कारागृहाद् ́ इति-हे आत्मन् ! हि यतः कारणात् कारागृहाद्-गुप्तिगृहाद् बहुविधं नानाप्रकारम्, अशुचितादि - अपावित्र्यादि दुःखं यत्र, (ततः), आदिपदात् क्षुत्-पिपासा,-पारवश्यादिपरिग्रहः, तथा तस्मात्, जडोऽपि मूर्खोऽपि तत् कारागृहं विभिद्य-विदार्य निर्गंतुं-निर्गमनक्रियां कर्तुम् इच्छति-वाञ्छतीत्यर्थः, ततस्तस्मात् कारणात्-हे आत्मन् ! स्वकर्मव्रातेन स्वकीयप्राक्कृतकर्मसमूहेन, ततः कारागृहाद् अधिकतरे-अतिशयेनाधिके बीभत्से, वपुषि शरीरे क्षिप्तः- प्रवेशितः सन् तद्वपुर्द्रढयितुंसावद्याहारादिना दृढीकर्तुं त्वं किं यतसे ? - किं यत्नं कुरुषे इत्यर्थः ।।५.२।। रत्न. -अथ शरीरं कारागृहादप्यधिकत्वेन चिन्तयन्नाह कारागृहाद् इति, व्याख्या - हे आत्मन् ! जडोऽपि - मूर्खोऽपि जनः कारागृहाद्गुप्तिगृहान्निर्गन्तुमिच्छति वाञ्छति । किं कृत्वा ? - तत् कारागृहं विभिद्य, खात्रं दत्त्वेत्यर्थः किंलक्षणात् ? - बहुविधं नानाप्रकारमशुचितादि - अपावित्र्यादि दुःखं १. आश्रयेषु-मु० । -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy