________________
७०
श्रीअध्यात्मकल्पद्रु
धर्मस्य कर्माणि-कार्याणि देव-गुरु-वन्दनादीनि तेषां कर्तुमुद्दिष्टानां स्मृतिंस्मरणं हरते-अपनयतीत्यर्थः, भो विज्ञा ! भोः पण्डिताः । तस्मात् तं यच्छब्दप्रदर्शितस्वरूपं प्रायशो - बाहुल्येन परैः आत्मव्यतिरिक्तैर्भोग्यं परिभोगयोग्यं भूरिपरिग्रहं मूर्च्छया बहुधन-धान्यादिसङ्ग्रहं त्यजत-परिहरतेत्यर्थः ।।४.६।।
-
रत्न. - अथ परिग्रहात् परत्रेह च दुःखानि भवन्ति, इति निरुपयन्नाह आरम्भैः इति, व्याख्या-यतो-यस्मात् कारणादारम्भैः- सावद्यव्यापारेण जीवोपमर्दादिजातैर्भरितः पूर्णः - प्राणी भवाम्भोनिधौ - संसारसमुद्रे निमज्जति ब्रुडति, अन्योऽपि गाढं भारवान् समुद्रे निमज्जतीति च पुनर्येन परिग्रहेण कुनृपादयोदुष्टराजाद्याः, आदिशब्देन दुष्टमन्त्र्या - ऽऽरक्षका - ऽन्यनियोगिनां ग्रहणम्, पुरुषं प्रति छलाद्-अन्यायाभावेऽपि च्छलग्रहणेन बाधितुं - पीडितुमीहन्ते - वाञ्छन्ति, च पुनर्यः परिग्रहश्चिन्ताभिः- धनं रक्षणादिजनिताभिर्व्याकुलता व्यग्रत्वं, तस्याः कृतेःकरणतो, धर्मकर्मणोः स्मृतिं हरते, चिन्ताव्याकुलचित्तस्य धर्मकर्मापि न स्मरतीति, अथवा धर्मस्य कर्मण इति तत्पुरुषसमासः कार्यः । हे विज्ञा ! हे दक्षाः ! यूयं तं भूरिपरिग्रहं त्यजत, कीदृशं ? - भोग्यं भोगाईं, कैः ? - परैरर्जकादित्यर्थः कथं ? - प्रायसः-प्रायेण, द्रव्यस्यार्जको भिन्नो भोक्तारस्त्वन्ये भवन्तीत्यर्थः,
-
[११४] "कीटिकासञ्चितं धान्यं, मक्षिकासञ्चितं मधु ।
कृपणैः सञ्चितं वित्तं परैरेवोपभुज्यते ।। [ ] इति
यथा सोढतादृक्कष्ट- परम्परयोगिगृहीतसिद्धरसभोक्ता वलभीवासी रङ्कः श्रेष्ठी जात इति ।।४.६।।
[११५] क्षेत्रेषु नो वपसि यत् सदपि स्वमेतद्यातासि तत् परभवे किमिदं गृहीत्वा ? | तस्यार्जनादिजनिताऽघचयार्जितात् ते,
यतः
भावी कथं नरकदुःखभराच्च मोक्षः ? ।।४.७ ।।
१. न् पदार्थः स० मु० । २. धनार्जन मु० । ३. ...न्ति चिन्ताभिर्व्या मु० । ४. प्रायसः - मूलत्वेऽपि गृहीतः ।
I