SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ धनममतामोचनद्वारम् धनवि.—अथ द्रव्यममतामोचनद्वारमुपसंहरन् तर्करीत्या धर्मस्थानेऽव्यापृतस्य द्रव्यस्य दोषान् दर्शयितुमुपदिशति - ७१ 'क्षेत्रेषु'- इति-यदि-यदेतत् प्रत्यक्षेण दृश्यमानं सदपि - विद्यमानमपि स्वं द्रव्यं क्षेत्रेषु-जिनभवन-बिम्ब-पुस्तक - साधु-साध्वी - श्रावक-श्राविकारूपेषु सप्तसु प्रतिष्ठातीर्थयात्रा - सहितेषु नवसु वा नो वपसि-नो बीजसन्ततिं कुरुषे, तर्हि तद् इदं दृष्यमानं धनं गृहीत्वा - लात्वा परभवे - अग्रेतने जन्मनि किं याताऽसि ? गन्ताऽसीत्यर्थः च पुनस्, तस्य धनस्य अर्जनम् - उपार्जनमादौ येषां तेऽर्जनादयः, आदिपदात् क्रयाणक- क्रय-विक्रयादयः, तैर्जनितानि - उत्पादितानि अघानि पापानि, तेषां चयः-समूहः, तेनार्जित-उत्पादितः, तस्मान्नरकदुःखभरात्-नरकगतिसम्बन्धिदुःखसमूहात् मोक्षः मुक्तिस्तव कथं केन प्रकारेण भावी-भवितेति ? तर्हीति पदे अध्याहार्ये ।।४.७।। अत्र यदि इति श्रीतपागच्छनायकमुनि अध्यात्मकल्पद्रुमस्याधिरोहणीटीकायां - सकलशास्त्रारविन्दप्रद्योतनमहोपाध्यायश्रीकल्याणविजयगणिशिष्यश्रीधनविजयगणिविरचितायां द्रव्यममतामोचननाम्नी चतुर्थी पदपद्धतिः ।।४।। रत्न.–अथार्थान्तरकथनेन सप्तक्षेत्र्यां धनवपनोपदेशमाह-क्षेत्रेषु नो वपसि इति, व्याख्या-हे धनिन् ! यदि त्वं क्षेत्रेषु - जिनभवनादिषु सप्तसु प्रवचनप्रतीतेषु, सद्-विद्यमानमपि स्वं धनं नो वपसि, अत्र वपनक्रियाया लक्षणया प्रयोगः, क्षेत्रशब्दोऽपि लक्षणया एव, यथा क्षेत्रे उप्तं व्रीह्यादिधान्यं शतगुणं भवति, तथाऽत्रापि सप्तक्षेत्र्यां दत्तमनन्तगुणं भवतीत्युपचारात् क्षेत्रशब्दस्य वापक्रियायाश्च निर्देश इति । इदं स्वं किं गृहीत्वा-सार्थे लात्वा परभवे त्वं याताऽसि ? गन्ताऽसि, काक्वा प्रश्नः । सार्थे गृहीत्वा यातुं न शक्यमिति सूचाऽपि । पक्षान्तरे । हे धनिन् ! ते तव नरकस्य - निरयस्य दुःखं, तस्य भरःप्रचयस्तस्मान्मोक्षो-मोचनं कथं भावी ?, अत्रापि काक्वा प्रश्नः, अपितु न भावीति सूचाऽपि । किंलक्षणात ? - तस्य - स्वस्यार्जनादिना जनितम्-उत्पादितं, यदघं पापं, तस्य चयः - समूहः तेनाऽर्जिताद्ं - उपार्जितादितिहेतोः, क्षेत्रेषु स्वं वपसि तदपि सुन्दरमितीत्यर्थः ।।५३।।७।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy