________________
धनममतामोचनद्वारम्
क्षेत्र-वास्तु धन-धान्य- गवाश्चैः इति व्याख्या - तनुभाजां प्राणिनां क्षेत्र-वास्तुधन-धान्य-गवाश्वैः परिग्रहैः कृत्वा क्लेश-पाप- नरकेभ्योऽधिकः को गुणः स्याद् ?, अपि तु न कोऽपि गुणः स्यादित्यन्वयः पूर्वं क्लेशः १ पश्चात् पापं २ तदनु नरक ३ इति त्रयो गुणाः परिग्रहस्येति सूचितम् अत्र गुणशब्दो लक्षणया ग्राह्य इति । अथ पदव्याख्या - क्षेत्रं सेतु-केतुभयात्मकं, वास्तु-गृहा- ऽट्टादि, धनं-श्रीफलपूगादि गणिम-धरिमभेदाद्, धान्यं-गोधूमादि चतुर्विंशतिधा, गवाश्वैरिति गावोऽश्वाश्च, ततो द्वन्द्वसमासस्तैः उपलक्षणान्महिष्युष्ट्राऽजोरभ्रादीनामपि ग्रहणं, किंलक्षणैः ? मेलितैः-स्थाने स्थाने वृन्दतामापादितैः पुनः किंलक्षणैः ? सनिधिभिः-निधानसहितैरिति कथनेन रूप्य - स्वर्ण-मण्यादयो गृहीता, निधयस्तु तैरेव भवन्तीति, यदि न धर्मनियोगो, धर्मे नियोगो - नियोजनं व्यापारणं स्यात्, यदा धर्मे नियोगो व्यापारणं स्यात् तदा तस्य परिग्रहस्य-कश्चिद् गुणोऽप्यस्तीति भावः । अत्र स्वर्गादिसुखप्राप्तिलक्षणो गुणः सूचितइति ।।४.५ ।।
-
६९
[११३] आरम्भैर्भरितो निमज्जति यतः प्राणी भवाम्भोनिधावीहन्ते कुनृपादयश्च पुरुषं येन च्छलाद् बाधितुम् । चिन्ताव्याकुलाकृतेश्च हरते यो धर्मकर्मस्मृतिं,
विज्ञा ! भूरिपरिग्रहं त्यजत तं भोग्यं परैः प्रायशः । । ४.६ ।। धनवि . - अथ परिग्रहपरिमाणव्रताऽङ्गीकारेण ममतात्यागमुपदिशन्नाह -
यतः परिग्रहात् प्राणी-जीवः आरम्भैः षट्कायाद्युपमर्दैर्भरितो-व्याप्तो भवाम्भोनिधौसंसारसमुद्रे निमज्जति- बुडति च पुनर्येन परिग्रहेण कुनृपादयः आदिपदाच्चौरनट - विटादयः पुरुषाः परिग्रहवन्तं पुरुषं च्छलाद्-आज्ञाभङ्गादिच्छलं प्राप्य बाधितुं-बाधां कर्तुमीहन्ते, वाञ्छन्तीत्यर्थः च पुनर्यः परिग्रहः- चिन्ताव्याकुलताकृतेःचिन्ता-परिग्रहस्या- प्राप्तस्यार्जनोपायपरिचिन्तनं प्राप्तस्य परिरक्षणोपायपरिचिन्तनं च, तेन व्याकुलता-अस्वास्थ्यं तस्य [तस्याः] कृतेः-करणाद् धर्मकर्मस्मृति१. ०स्य यदि धर्मे चैत्योपाश्रय-साधर्मिकपोष - ज्ञानभाण्डागारकरणादिलक्षणे नियोगो व्यापारणं० इति मुद्रितेऽधिकः पाठः ।