SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीअध्यात्मकल्पद्रुमे इति विचारोऽपि न सम्यगित्याह - 'द्रव्यस्तवात्मा' इति, व्याख्या-जिनप्रासाद-जिनबिम्ब-प्रतिष्ठा-जिनबिम्बार्चनाऽऽदिर्द्रव्यस्तवः, स एवात्मा-स्वरूपं यस्य स द्रव्यस्तवात्मा धर्मोऽपि सारम्भतयाआरम्भसहितत्वेन नातिशुद्धो-नातिनिर्मलो वर्त्तते, तज्जनित-शुभकर्मणां स्वर्गादौ भोग्यत्वात्, सर्वस्यापि संसारसुखस्य दुःखत्वेनोक्तत्वादिति । किंलक्षणो ? - धनान्येव साधनं-कारणं यस्य स धनसाधनः, धनैरेव साध्य इत्यर्थः, तुरिति विशेषे, निस्सङ्गता-निरीहता एवात्मा-स्वरूपं यस्य स निस्सङ्गतात्मा धर्मोऽतिशुद्धः, आरम्भरहितत्वेन पापमलाभावान्निर्मलताया योगात्, निस्सङ्गतात्मना धर्मेण केवलं कर्मनिर्जरणमेव भवतीति विशुद्धत्वमेवेत्यर्थः, तेन स एव भवो वर्तमानो भवः तस्मिन्नपि मुक्तिश्रयं यच्छति-ददातीति ।।४.४।। [११२] क्षेत्र-वास्तु-धन-धान्य-गवाश्वैर् मेलितैः सनिधिभिस्तनुभाजाम् । क्लेशपापनरकाभ्यधिकः स्यात्, को गुणो न यदि धर्मनियोगः ? ||४.५।। धनवि.-अनन्तरं यतीनुपदिश्य, गृहस्थोद्देशेन ममतात्यागमुपदिशति 'क्षेत्र' इति - क्षेत्राणि च-शालीक्षप्रमुखकेदाराः, वास्तूनि च-गृहा-ऽट्टहट्टप्रभृतीनि, धनानि च-स्वर्ण-रूप्यादीनि, धान्यानि च-व्रीह्यादीनि, गावश्चधेनु-धेनुपतयः, अश्वाश्च-तुरङ्गमाः, उपलक्षणाद् गज-रथ-पदात्यादयः, तैस्तथा, किंभूतैः ? - सनिधिभिः-निधानसहितैर्मेलितैः-सञ्चितैः तनुभाजां-देहिनां क्लेशश्चशरीरश्रमः, पापानि च-पञ्चाश्रवसेवनादीनि, नरकाश्च प्रसिद्धाः तेभ्योऽधिकाअतिरिक्तः, तदेत्यध्याहारात् को गुणः ? - को विशेषलाभो भवतीत्यक्षरार्थः, यदि-चेद् धर्मनियोगो-धर्मस्थाने व्यापारो न भवेदिति ।।४.५।। रत्न.-अथ 'भूरिपरिग्रहः पापायैव इति द्रढयन्नाह - १....दकारण-जि.'मु० । २. द्रढयति-क्षेत्र... इति प्रतौ. ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy