________________
धनममतामोचनद्वारम् प्रसादः-प्रसत्तिः स्यात्, परं धनैः सुखमल्पकं-स्तोकं, तदप्यल्पकालं भवति, अथवा मनःप्रसादलक्षणं सुखमल्पकमल्पकालं भवति, तुरिति विशेषे, आरम्भेभ्यः पापैरारम्भपापैः-षट्कायोप-मर्दादिजनितैः सुचिरं-चिरकालं दुर्गतौ-तिर्यग्-नरकादौ दुःखं स्यात्, किंलक्षणं ? - दारुणं भयावहं, हे आत्मन् ! इति त्वमवेहिजानीहि, यथा नवानामपि नन्दराजानाम् ।।४.३।। [१११] द्रव्यस्तवात्मा धनसाधनो न,
धर्मोऽपि साऽऽरम्भतयाऽतिशुद्धः | निस्सङ्गतात्मा त्वतिशुद्धियोगान्
मुक्तिश्रियं यच्छति तद्भवेऽपि ।।४.४।। धनवि.-ननु द्रव्यस्तवसाधनं धनं कथं दुर्गत्यै ? इत्याशङ्कायामाह - 'द्रव्यस्तवात्मा'- इति - द्रव्यस्तवात्मा-द्रव्यस्तवः पूजा-प्रासाद-प्रतिमाप्रतिष्ठादिकः "भावकारणं द्रव्यं" इति [ ] वचनात्, स एवात्मा-स्वरूपं यस्य स तथा, धनसाधनो-धनं-स्वर्णादिकमेव साधनं-निमित्तं यस्य स तथा, सहारंभेनषट्कायाधुपमर्दैन वर्त्तते यः स तथा तस्य भावस्तत्ता [सारम्भता], तया सारंभतया इति, एतावता धनप्रभवः पूजादिधर्मोऽपि किञ्चिदारम्भकलकितत्वानिष्कलङ्को न भवतीति, तु पुनर्निःसङ्गतात्मा धर्मोऽति-शुद्धियोगात्, तद्भवेऽपि मुक्तिश्रियं-मोक्षलक्ष्मी यच्छति-ददातीति; अत्र निस्सङ्गतात्मा निर्गतः सङ्गोधनधान्यादिर्नवविधः परिग्रहो यस्मात् स, तथा तस्य भावस्तत्ता [निःसङ्गता] सैवात्मा-स्वरूपं यस्य स तथा, अतिशुद्धियोगाद्-अतिशयेन शुद्धिः-निष्कलङ्कता, तस्या योगात्-सम्बन्धात् तद्भवेऽपि-स एव भवो-जन्म तद्भवस्तस्मिन्, अत्र अपिशब्दो वैलक्षण्यद्योतको, वैलक्षण्यं चेदं-द्रव्यस्तवात्मा धनसाधनो धर्मो भवान्तरे मुक्तिप्रापको भवति, निस्सङ्गतात्मा तु धर्मस्तपः-संयमरूपो भवान्तरे तद्भवे वा मुक्तिप्रापको भवतीति ।।४.४।।
रत्न.-अथ द्रव्यस्तवात्मा धर्मो भवति, इति धनैरेव, धनसञ्चयः कर्त्तव्य १. प्रतौ 'भवति स्य खण्डं' पदमस्ति, तत्र 'भवति, सुखस्य खण्डम्' पदानि भवेयुः । सं० ।