________________
श्रीअध्यात्मकल्पद्रु
वैरिणामप्युपकारकाणि भवन्ति - उपयोगीनि भवन्ति, सञ्चयिनं निहत्य वैरिणो गृह्ह्णन्ति-इत्यर्थः । च पुनर्यैः सर्पोन्दुरादिष्वपि गतिः भवान्तरप्राप्तिर्भवति, सञ्चयी पुमान् धनमोहात् सर्पोन्दुरादिषु योनिषु मृत्वोत्पद्यते इति च पुनर्यैर्धनैरापत्मरणाऽऽमयाद्यामृत्यु-रोगादिका विपद्, हन्तुं - निवारयितुं न शक्या, अवश्यंभाविनो मरणरोगादयो भावा भवन्त्येवेति भावः, ब्रह्मदत्तचक्रिण इव तत एवंविधेषु धनेषु हे आत्मन् ! क एव मोहः ?, काकूक्त्या प्रश्नः, अपि तु न कोऽपि, निरर्थक एवेति भावः ।।४.२ ।।
६६
[ ११० ] ममत्वमात्रेण मनःप्रसाद
सुखं धनैरल्पकमल्पकालम् । आरम्भपापैः सुचिरं तु दुःखं, स्याद् दुर्गतौ दारुणमित्यवेहि ।।४.३ ।।
धनवि . - ननु धनस्य द्विषदुपकारकत्वादिदोषोऽस्तु परं ममत्वबुद्ध्या मनःप्रसादसुखं तु भवति ? इत्याशङ्कायामाह
'ममत्वमात्रेण' इति – ममत्वमात्रेण 'ममेदं धनं, ममेदं गृहम्'इत्यादिममतामात्रेण धनैः-द्रव्यैः, अल्पकं-कुत्सितमल्पमल्पकं - ईषत्तरमात्रं, अल्पकालम्-अल्पः कालःसमयो यस्य तदल्पकालम् - अल्पकालीनं, मनःप्रसादसुखं - चित्तप्रसन्नतालक्षणं, सौख्यं स्याद्-भवति, तु पुनर् आरम्भपापैः द्रव्यार्जनार्थं षट्कायाद्युपमर्दजनितदुष्कृतैर्दुर्गतौनरकादिगतौ सुचिरम्-अतिचिरकालं दारुणम्-अतिभयङ्करं दुःखं स्याद्-द्भवति, इति-अमुना प्रकारेणोक्तं सम्यग्-अवेहि जानीहीत्यर्थः,
भावार्थस्तु द्रव्यममतामात्रेणोत्कृष्टं शतवर्षमात्रं सुखं भवति, द्रव्यार्ज्जनाजन्यपापैस्तूत्कृष्टं त्रयस्त्रिंशत्सागरोपमाणि यावन्नरकगतौ दुःखं भवतीति सम्यक् प्रकारेण ज्ञात्वा द्रव्यममतां मुञ्चेति ।।४.३ ।।
रत्न. - अथ धनेभ्यः सुखस्याल्पत्वं दुःखस्य भूयस्त्वमाह
ममत्वमात्रेण मनःप्रसाद, इति व्याख्या- धनैर्हेतुभिर्ममत्वमात्रेण, मनसः-चेतसः,