________________
धनममतामोचनद्वारम्
६५
सुखोपकृतिकृतां भावः सुखोपकृतिकृत्त्वं तस्य धीः- बुद्धिस्तया, रमाः स्वस्य कुटुम्बस्य च सुखकृतो भवन्ति, परेषां दीनानाथानां चोपकृतिकृतो भवन्तिइतिबुद्ध्येत्यर्थः, परमेता रमाः संसृतौ-संसारे, पातं - पतनं ददति । एतेषां संसृतिपाते कुतः शक्तिरित्याह- एताः किंरूपाः ? हेतवः कारणानि, कस्य ? पाप्मनः-पापस्य, कुतः ? - अधिकरणत्वतः, प्रायो लक्ष्म्यः पापाधिकरणमेव भवन्ति तरवारिप्रभृतिशस्रवत्, केषांचिद् धन्यानामेव पुण्याधिकारिण्यो भवन्ति, तस्माद् बहुसावद्यकर्मर्भिर्लक्ष्मीमेलनं न युक्तिमदिति ।।४.१।।
[१०८] यानि द्विषामप्युपकारकाणि, सर्पोन्दुरादिष्वपि यैर्गतिश्च ।
शक्या च नापन्मरणामयाद्या,
हन्तुं धनेष्वेषु क एव मोहः ? ।।४.२ ।।
-
·
धनवि. ननु
[१०९] 'धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात् पुनर्निस्तरन्ति । धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद् धनान्यर्ज्जयध्वं धनान्यर्ज्जयध्वम् ।। [
1
इति वचनात् कथं ममतामोचनं क्रियते ? इत्याशङ्कायां द्रव्यस्यासारतां दर्शयन्नुपदिशति
-
‘यानि' इति - यानि धनानि द्विषामपि वैरिणामपि उपकारकाणि-उपकारकर्तृणि परशुरामादिधनानि सुभूमादीनामिव भवन्ति च पुनर्यैर्धनैः सर्पोन्दुरादिष्वपि - भुजगमूषकादिष्वपि सुरप्रियस्येव गतिस्तिर्यग्लक्षणा भवतीति च पुनर्यैर्धनैर्मरणाऽऽमयाद्या-मृति-रोगादिका, आपद्-आपदा हन्तुं - निराकर्तुं न शक्या न शक्यते, तेषु-एष्वनन्तरोक्तेषु धनेषु, एव-निश्चये को मोहो-ममतालक्षणः कर्त्तव्य इति ?, अत्र 'किम्' शब्दः कुत्सावाची वाच्यः ।।४.२।।
रत्न. - अथ धनेभ्योऽनर्थपरम्परामाह
'यानि द्विषामपि' इति, व्याख्या - यानि धनान्यर्जितानि - सञ्चितानि द्विषां
"