________________
४.धनममतामोचनाधिकारस
[१०७] याः सुखोपकृतिकृत्त्वधिया त्वं,
मेलयन्नसि रमा ममताभाग | पाप्मनोऽधिकरणत्वत एता,
हेतवो ददति संसृतिपातम् ।।४.१।। धनवि.-नन्वनन्तरमपत्यममतामोचनद्वारमुक्तं, परमपत्यममतामोचने धनं विद्यमानं कस्याधीनं क्रियते ? इत्याशङ्कायां द्रव्यममतामोचनद्वारमुपदिशन्नाह -
अथ धनाधिकारस-अथ धनाधिकार इति अथापत्यममतामोचनाधिकारमुपदिश्य द्रव्यममतामोचनाधिकार उपदिश्यत इत्यर्थः । तत्र द्रव्यस्य प्रथमं पापाधिकरणत्वं दर्शयन् तस्य ममतात्यागमुपदिशति - ___ 'या सुखोपकृति' इति - सुखोपकृतिकृत्त्वधिया सुखं च-अहं लक्ष्मीवान् इत्यादि मानसं सौख्यम, उपकृतिश्च-स्वजनपोषणादिलक्षण उपकारः, तयोः कर्तृत्वबुद्ध्या, यद् वा सुखस्योपकारकत्वबुद्ध्या, ममताभाग-ममेदमिति ममत्ववान सन्, या रमा:-कमलाः त्वं मेलयन्-स्वकीयत्वकरणादिना सञ्चयीकुर्वन्, असिवर्त्तसे, परं पाप्मनोऽधिकरणत्वतः-अधिक्रियते आत्मा नरकादिषु याभिरित्यधिकरणं, तस्य भावस्तत्त्वं [अधिकरणत्वं] तस्मात्, तथा पापोकरणत्वत इत्यर्थः, पाप्मन:पापस्य परस्त्रीगमनादिलक्षणस्य महारम्भ-महापरिग्रहादिलक्षणस्य वा दुष्कृतस्य हेतवो-निमित्तभूताः कमलाः संसृतिपातं-संसारे पतनं मम्मणस्येव ददति-यच्छन्ति इत्यर्थ ।।४.१।।
रत्न.-अथ तुर्यो धनममत्वमोचनाधिकारो व्याख्यायते । तत्र प्रथमं धनात् सुखोपकृती भवत इति मा चिन्तयेत्युपदिशति -
याः सुखोपकृतिकृत्त्वधियात्वम् इति, व्याख्या - हे जीव ! त्वं या रमालक्ष्मीः प्रति मेलयन्नसि-सञ्चयन्नसि, त्वं कीदृशः? - ममतां-ममत्वं भजसीति ममताभाक्, कया ! - सुखं चोपकृतिश्च सुखोपकृती, ते कुर्वन्तीति सुखोपकृतिकृतः,