________________
अपत्यममतामोचनद्वारम्
[१०५] 'पीयं थणयच्छीरं सायरसलिलाउ हुज्ज बहुययरं । संसारम्मि अणंते माऊणं अन्नमन्नाणं ।। [ उपदेशमाला - २०१] इत्यादिना सम्बन्धस्यानन्त्येन वृद्धावस्थायामुपकारकत्वस्य संशयेनापत्येषु ममतां त्यज समतां च भजेति ।। ३४ ।।
इति श्रीतपागच्छनायक श्रीमुनिसुन्दरसूरिनिर्मितस्याध्यात्मकल्पद्रुमस्याधिरोहणीटीकायां सकलशास्त्राऽरविन्दप्रद्योतनमहोपाध्यायश्रीकल्याणविजयगणिशिष्योपाध्याय श्रीधनविजयगणिविरचितायाम्, अपत्यममतामोचननाम्नी तृतीया पदपद्धतिः ।।३।। रत्न.–अथापत्यतः स्वार्थपूर्त्तिरेव कारणं भविष्यतीति निरूपयन्नाह
'
त्राणाशक्ते' इति, व्याख्या हे जीव ! त्वमपत्येषु मा स्निहः - स्नेहं मा कृथाः, कस्याः ? त्राणाय-रक्षणाय, अशक्तेः - असामर्थ्यात्, कस्याम ? - आपदिमरणलक्षणायां, विपदि अन्यस्यां वा रोगादिकायां, आपदि अपत्यानि मातरौ पितरौ प्रति रक्षितुं न शक्तानि भवन्तीति च पुनरुपकृतेः उपकारस्य सन्देहात्, कुता ? मिथः-परस्परमङ्गवतां- देहभाजां सम्बन्धानां मातृ-पितृ-पुत्र-भ्रातृलक्षणानामानन्त्यतः - अनन्तत्वतो न जाने कः कस्योपकारं करिष्यतीति सन्देहस्तस्माद्, यश्च पिता स एवानन्तशः पुत्रो जातः य एव पुत्रः स एवानन्तशः पिता जात इति, सर्वेषां सम्बन्धानामानन्त्यमागमवचनाद्, व्यवहारमात्रतोऽवसेयम् । इह भवे पिता-पुत्रयोर्वैरि-सम्बन्धेनोत्पन्नयोरुपकारं प्रति सन्देह एव, यथा श्रेणिकाऽशोकचन्द्रयोरिति स्नेहं मा कृथा इत्युपदेशः । । ३.४ ।।
-
-
[१०६] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धुलब्धप्रतिष्ठवरवाचकरत्नचन्द्रः । अध्यात्म-कल्पफलदस्य चकार टीकां, तत्राधिकार इति पूर्त्तिमगात् तृतीयः ।।३।।
अपत्यममतामोचनाभिधस्तृतीयोऽधिकारः
इति
१. ...रेव रागका० मु० |
६३
-
-