________________
श्रीअध्यात्मकल्पद्रु
'कुक्षौ युवत्या' इति, व्याख्या -युवत्याः कुक्षौ - गर्भे कृमयोऽपि विचित्रा भवन्ति, किंलक्षणाः ? - अस्रं - रुधिरं स्त्रिया योनिसम्बन्धि, शुक्रं -रेतः कामुकपुंसः सम्बन्धि, ताभ्यां प्रभवा - उत्पत्तिमन्तः, यत उक्तम् • [संबोधप्रकरणे]
—
६२
[ १०२ ] "इत्थीण जोणिमज्झे हवन्ति बेइन्दिया उ जे जीवा ।
इक्को व दो व तिन्नि व लक्खपुहुत्तं च उक्कोसा" ।। [५७९]।।
गर्भजाः संमूर्च्छजाश्च पञ्चेन्द्रियास्त्वन्ये इति । तेषु कृमिषु तस्या युवतेस्तत्पतेश्च रागो न भवति, ततोऽयं रागः अपत्यकेषु किं भवति ?, काक्वा प्रश्नः, यदि रागो युक्तः, तदा कुक्षिजत्वात् तेष्वपि युक्तः, यदि न करणीयस्तदाऽपत्येष्वपि न करणीयः, तेनैकत्र न जायते, तत्रार्थे काकूक्त्या प्रश्नः ।।३.३ ।।
[१०४ ] त्राणाऽशक्तेरापदि -
सम्बन्धा-ऽऽनन्त्यतो मिथोऽङ्गवताम् ।
सन्देहाच्चोपकृतेर्
माऽपत्येषु स्निहो जीव ! ।। ३ . ४ ।।
धनवि.–अथापत्यममतामोचनद्वारोपसंहारायापत्यममताऽसाधारणकारणस्नेह
निरासकरणकारणानि त्रीणि दर्शयन्नुपदिशति
'त्राणाऽशक्तेः' इति हे जीव ! आपदि - आपदायामापतितायां सत्यां, त्राणाऽशक्तेः-पालनासामर्थ्यात् च पुनः अङ्गवतां देहिनां मिथः परस्परं सम्बन्धाऽऽनन्त्यतः-अनन्तभवभावित्वेन पितृत्व- पुत्रत्वादि-सम्बन्धस्यानन्तत्वम्, च पुनः, उपकृतेः-वार्द्धक्ये पालनलक्षणस्योपकारस्य सन्देहात् - कः पूर्वं मरिष्यति ? कश्च पश्चान्मरिष्यति ? इत्यादिना अग्रे सुपुत्रः कुपुत्रो वा भविष्यति ? इत्यादिना वा संशयात्, अपत्येषु पुत्र-पुत्र्यादिषु मा स्निहः- स्नेहं मा कुर्या इत्यक्षरार्थः ।
भावार्थस्तु कर्मजनितायामापत्तावापतितायां सत्यामत्रायकत्वेन ।
-
-